युयुधाते बहून्मार्गान्कृतवंतौ सुदुर्जयौ
हते तस्मिन्महावीर्ये कान्यकुब्जा भयातुराः
रणं त्यक्त्वा गृहं जग्मुर्नृपशोकपरायणाः
स्वंस्वं निवेशनं जग्मुर्महीराजभयातुराः
महीराजस्तु बलवान्सप्तलक्षबलान्वितः 3.3.6.
तथा भीष्मः परिमलो लक्षणः पितरं स्वकम्
भूमिराजस्य विजयो जयचंदयशो रणे
जयचंद्रः कान्यकुब्जे देहल्यां पृथिवीपतिः
भीष्मः सिंहस्थिते गंगाकूले शक्रप्रपूजकः
मासांते भगवानिंद्रो ज्ञात्वा तद्भक्तिमुत्तमाम्
देहि मे वडवां दिव्यां यदि तुष्टो भवान्प्रभुः
ददौ स भगवानिंद्रस्तत्रैवान्तर्हितोभवत्
तस्मिन्काले परिमलः पितृशोकपरायणः परीक्षार्थं शिवः साक्षात्सर्परोगेण तं ग्रसत्
व्यतीते पंचमे मासे नृपः शक्तिविवर्जितः
मरणाय ययौ काशीं स्वपत्न्या सहितो नृपः
एतस्मिन्नन्तरे कश्चित्पन्नगो मूलसंस्थितः
रुद्राहिं पन्नगः प्राह भवान्निर्दय मन्दधीः
मूर्खोऽयं भूपतिः साक्षादारनालं पिबेन्नहि 3.3.7.
राज्ञो देहे परं हर्षं प्रत्यहं प्राप्तवानहम्
मूर्खोत्र भूपतिर्यो वै तैलोष्णं यन्न दत्तवान्
चकार पन्नगोक्तं तद्गतरोगो नृपोऽभवत्
ततो जातं स्वयं लिंगमंगुष्ठाभं सनातनम्
निशीथे तम उद्भूते दिक्षु सूर्यत्वमागतम्
महिम्नस्तवपाठैश्च तुष्टाव गिरिजापतिम्
श्रुत्वाह नृपतिर्देवं यदि तुष्टो महेश्वर
तथेत्युक्त्वा महादेवो लिंगरूपत्वमागतः
तदा मलस्तु संतुष्टः प्राप्तो गेहं महावतीम्
ततःप्रभृति वर्षांते जयचंद्रपुरीं ययौ 3.3.7.
दिष्ट्या ते संक्षितो रोगो दिष्ट्या ते दर्शितं मुखम्
यदा मे विघ्न आभूयात्तदा त्वं मां समाचर