बहुरूपातिरूपा च सात्त्विका योगकर्मसु
लोहितास्यात्करालास्यात्कालीभासस्य इत्यपि
समिद्भेदेषु या जिह्वास्तास्तु तेनैव योजयेत्
त्रिमध्वक्तैर्यथा होमं कर्णिकायां च होमयेत्
बहुरूपा पुष्पहोमे कृष्णा चान्नेन पायसैः ।। इक्षुहोमे पद्मरागा सुवर्णा पद्महोमके
लोहिता पद्महोमे च श्वेता वै बिल्वपत्रके
लोहितास्या पितृहोमे ततो ज्ञेया मनोजवा
समानमाज्यहोमे च निषण्णं शेषवस्तुषु 2.1.15.
कर्णहोमे तु वै व्याधिर्नेत्रे तद्द्वयमीरितम्
पुत्रं विपत्करं चैव तस्मात्तत्र न होमयेत्
प्रवक्ष्यामि विधिं कृत्स्नं यद्विशेषं पुनः शृणु
वक्रा ख्याता महाहोमे कृष्णाभा सा क्रतौ मता
पुष्पपत्रविधौ होमे वह्नेर्जिह्वाः प्रकीर्तिताः
इन्द्रकोष्ठं मस्तकं स्यादीशाग्नेये च मस्तके
अविशिष्टं भवेत्पुच्छं मध्ये चोदरसम्भवम्
हुत्वा व्रीहिगणं तत्र कर्णे पुष्पाहुतिं हुनेत्
श्रवणे चैव नेत्रे च दक्षिणे चेक्षुखंडकम्
मारणे पुष्पदेशे तु न चान्यं होमयेत्क्वचित् 2.1.15.
चन्दनागरुकर्पूरपाटलायूथिकानिभः
प्रदक्षिणस्त्यक्तकल्पा छत्राका शिथिला शिखा
छिन्नवृत्ताः शिखाः कुर्यान्मृत्युर्धनपरिक्षयः
एवंविधेषु दोषेषु प्रायश्चित्तं समाचरेत्
मूलेनाज्येन जुहुयाज्जुहुयात्पञ्चविंशतिम्
यज्ञान्तपूजाविधिवर्णनम् होमावसाने प्रजपेदुपचारांश्च षोडश
दद्यात्समीरणं पश्चात्पीठपूजां समाचरत्
इष्टं शक्तिस्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं वरांतम्
पूर्वादिद्वारदेशेषु कामदेवं शतक्रतुम्
आवाह्य स्थापयेत्पश्चादष्टौ मुद्राः प्रदर्शयेत्
अतः पूर्वादिपात्रेषु यावता च हुताशनम्
महोदरं महाजिह्वमाकाशत्वेन पूजयेत्