विपाकं कर्मणां सर्वं नरः प्राप्नोति सर्वदा
युक्ताश्चापि ग्रहास्तत्र नित्यं शांतिकपौष्टिके
अद्भुते च तथा शांतिं कुर्याद्भक्तिसमन्वितः
अद्भुतेषु च सर्वेषु अयुतं कारयेन्नरः
लक्षहोमं कोटिहोमं राजा कुर्याद्यथाविधि
ग्रहाणां लक्षहोमस्तु कोटिहोमस्तथा कलौ
यत्र यत्र जपः कार्यो होमो वा यत्र कुत्रचित् 2.1.14.
युग्मसाध्यं न कर्तव्यं युग्मतो भयमादिशेत्
एकत्रिंशद्दिनैर्वापि न कुर्याद्व्यत्ययं क्वचित्
तृतीये तु सहस्रं स्याद्ग्रहसाध्यः स्मृतो विधिः
द्वितीयेऽह्नि द्विसाहस्रं तृतीये तु सहस्रकम्
नवाहे कल्पयेल्लक्षमेकैकांगं दिने दिने
कोटिहोमे च तिथ्यंगे शतभागेन कल्पयेत्
नित्यमेकं दिने दद्यात्पृथङ्नित्यं न चाचरेत्
अयुते लक्षहोमे च कोटिहोमे च सर्वदा
महोत्सवे द्वितीये तु बलिदानं तथैव च
पञ्चाहे तु तृतीयेऽह्नि बलिदानं प्रशस्यते 2.1.14.
पञ्चाहे द्वादशाहे तु द्वात्रिंशत्षोडशेऽहनि
कुण्डसंस्कारवर्णनम् असंस्कृते चार्थहानिस्तस्मात्संस्कृत्य होमयेत्
अष्टादश स्युः संस्काराः कुण्डानां तत्र दर्शिताः
त्रिसूत्रीकरणं पश्चाद्वृत्तसूत्रं निपातयेत्
जिह्वां प्रकल्पयेत्पश्चात्तस्मादग्निं समाहरेत्
नदीपर्वतशालाभ्यः स्त्रीहस्तात्परिवर्जयेत्
तमग्निं प्रतिगृह्णीयादात्मनोऽभिमुखं यथा
वागीश्वरीमृतुस्नातां वागीश्वरसमागताम्
कालबीजेन चैशान्यां योनावग्निं विनिक्षिपेत्
पितृपिङ्गल दहदह पंचयुग्ममुदीर्य च
वह्निबर्हिषि संयुक्ताः सादियांताः सबिंदवः 2.1.15.
जिह्वास्तास्त्रिविधाः प्रोक्ता यज्ञदत्तेन सत्तमाः
त्रिमध्वक्तैर्यत्र होमं कर्णिकायां च होमयेत्