तत्तु कुंडानुरूपं वा सुव्यक्तं सुमनोहरम्
यावद्द्वयप्रमाणेन अर्धांगुलक्रमाद्बहिः
तत्र तत्र भवेत्कुंडं बिंबशून्यं न होमयेत्
अवटोपि उमादेवी बिंबः ख्यातः सदाशिवः
त्रयोदशांगुलं हित्वा वह्निहस्तमथापि वा
तस्य दक्षिणदिग्भागे अग्रतो मंडलं लिखेत् 2.1.13.
अर्कहस्तांतरे कुर्याच्छतोर्ध्वांते शतेन वा
यज्ञमानविधानवर्णनम् अमानेन हतो यज्ञस्तस्मान्मानं न हापयेत्
शतार्धं प्रथमं मानं शतसाहस्रमेव च
अतः परं तु विभवे राजा वान्यो द्धिजोत्तमाः
विपाकं कर्मणां सर्वं नरः प्राप्नोति सर्वदा
युक्ताश्चापि ग्रहास्तत्र नित्यं शांतिकपौष्टिके
अद्भुते च तथा शांतिं कुर्याद्भक्तिसमन्वितः
अद्भुतेषु च सर्वेषु अयुतं कारयेन्नरः
लक्षहोमं कोटिहोमं राजा कुर्याद्यथाविधि
ग्रहाणां लक्षहोमस्तु कोटिहोमस्तथा कलौ
यत्र यत्र जपः कार्यो होमो वा यत्र कुत्रचित् 2.1.14.
युग्मसाध्यं न कर्तव्यं युग्मतो भयमादिशेत्
एकत्रिंशद्दिनैर्वापि न कुर्याद्व्यत्ययं क्वचित्
तृतीये तु सहस्रं स्याद्ग्रहसाध्यः स्मृतो विधिः
द्वितीयेऽह्नि द्विसाहस्रं तृतीये तु सहस्रकम्
नवाहे कल्पयेल्लक्षमेकैकांगं दिने दिने
कोटिहोमे च तिथ्यंगे शतभागेन कल्पयेत्
नित्यमेकं दिने दद्यात्पृथङ्नित्यं न चाचरेत्
अयुते लक्षहोमे च कोटिहोमे च सर्वदा
महोत्सवे द्वितीये तु बलिदानं तथैव च
पञ्चाहे तु तृतीयेऽह्नि बलिदानं प्रशस्यते 2.1.14.
पञ्चाहे द्वादशाहे तु द्वात्रिंशत्षोडशेऽहनि
कुण्डसंस्कारवर्णनम् असंस्कृते चार्थहानिस्तस्मात्संस्कृत्य होमयेत्
अष्टादश स्युः संस्काराः कुण्डानां तत्र दर्शिताः