वसुंधरायोगभेदे प्रपंचे वर्तमादिशेत्
अंकुरार्पणयागे च वैष्णवे यागकर्मणि
मार्जारपौष्टिके वैरं रम्ये च शांतिके तथा
पुरश्चरणकाम्येषु ज्वरादीनां विमोक्षणे
देवतातीर्थयात्रादौ महायुद्धप्रवेशने
मारणोच्चाटने चैव तथा रोगोपशांतये 2.1.13.
अष्टास्रमब्जकुंडं च सप्तास्रं निधिसाधने
यावन्निम्नं भवेदेव विस्तारस्तावदेव तु
अयुतादिषु होमेषु मेखलां योजयेत्सुधीः
कोणवेदरसैर्मानं यथायोग्यमनुक्रमात्
अरत्निमात्रे कुंडे तु त्रिश्चैकांगुलतः क्रमात्
सप्तमेखलकं युक्तं लक्षहोमे न शस्यते
एकांगुलादिमानेन नेमिं संवर्धयेत्सुधीः
वसुहस्ते भानुपंक्तिर्युग्महीनेऽपि ताः क्रमात्
पार्श्वतो योजयेत्तत्र मेखलास्ता यथाक्रमम् ।। । सार्धांगुलादिमानेन नेमिं संवर्धयेत्सुधीः
एकमेखलयागेन योजयेच्छक्तिभावतः 2.1.13.
कुंडस्य रूपं जानीयात्परमं प्रकृतेर्वपुः
षटचतुर्धा गुणायामविस्तारोन्नतिशालिनी
एकैकांगुलतो योनिं कुंडशून्येषु वर्धयेत्
स्थापयेत्कुंडकोणेषु योनिं तां द्विजसत्तमाः
तत्तु कुंडानुरूपं वा सुव्यक्तं सुमनोहरम्
यावद्द्वयप्रमाणेन अर्धांगुलक्रमाद्बहिः
तत्र तत्र भवेत्कुंडं बिंबशून्यं न होमयेत्
अवटोपि उमादेवी बिंबः ख्यातः सदाशिवः
त्रयोदशांगुलं हित्वा वह्निहस्तमथापि वा
तस्य दक्षिणदिग्भागे अग्रतो मंडलं लिखेत् 2.1.13.
अर्कहस्तांतरे कुर्याच्छतोर्ध्वांते शतेन वा
यज्ञमानविधानवर्णनम् अमानेन हतो यज्ञस्तस्मान्मानं न हापयेत्
शतार्धं प्रथमं मानं शतसाहस्रमेव च
अतः परं तु विभवे राजा वान्यो द्धिजोत्तमाः