स्थानं विमर्दितं कुर्यात्खनित्वा सेचयेज्जलैः
अर्कांगुलमितं सूत्रं चतुरस्रं प्रकल्पयेत्
मापयेत्तेन मानेन त्रिवृत्तं कुंडमुज्ज्वलम्
वृत्तानि कालिकादीनि बहिस्त्रीणि विवर्जयेत्
दशधा भेदयेत्क्षेत्रे उर्ध्वाधोर्ध्वांगुलद्वयम्
पंचधा भेदिते क्षेत्रे कामं वा विभजेत्सुधीः 2.1.13.
योनिस्थानं प्रतिष्ठाप्य अश्वत्थस्य दलाकृतिः
चतुरस्रं समुद्धृत्य सूत्रं संकल्पयोगतः
शृंगाटकं युग्मपुटं षडस्रं कुंडत्रयं बुधाः
चतुस्रं भवेत्कुंडं द्विजसंस्कारकर्मणि
वसुंधरायोगभेदे प्रपंचे वर्तमादिशेत्
अंकुरार्पणयागे च वैष्णवे यागकर्मणि
मार्जारपौष्टिके वैरं रम्ये च शांतिके तथा
पुरश्चरणकाम्येषु ज्वरादीनां विमोक्षणे
देवतातीर्थयात्रादौ महायुद्धप्रवेशने
मारणोच्चाटने चैव तथा रोगोपशांतये 2.1.13.
अष्टास्रमब्जकुंडं च सप्तास्रं निधिसाधने
यावन्निम्नं भवेदेव विस्तारस्तावदेव तु
अयुतादिषु होमेषु मेखलां योजयेत्सुधीः
कोणवेदरसैर्मानं यथायोग्यमनुक्रमात्
अरत्निमात्रे कुंडे तु त्रिश्चैकांगुलतः क्रमात्
सप्तमेखलकं युक्तं लक्षहोमे न शस्यते
एकांगुलादिमानेन नेमिं संवर्धयेत्सुधीः
वसुहस्ते भानुपंक्तिर्युग्महीनेऽपि ताः क्रमात्
पार्श्वतो योजयेत्तत्र मेखलास्ता यथाक्रमम् ।। । सार्धांगुलादिमानेन नेमिं संवर्धयेत्सुधीः
एकमेखलयागेन योजयेच्छक्तिभावतः 2.1.13.
कुंडस्य रूपं जानीयात्परमं प्रकृतेर्वपुः
षटचतुर्धा गुणायामविस्तारोन्नतिशालिनी
एकैकांगुलतो योनिं कुंडशून्येषु वर्धयेत्
स्थापयेत्कुंडकोणेषु योनिं तां द्विजसत्तमाः