गंडं च नियतं मूर्तौ कुर्यादंगसमुन्नतेः
सवितानल पत्रस्य चारुविद्याधरस्तथा
अभ्यंगपदबन्धादि सामान्येनोपशोभि च
कराभ्यां कांचनीं मालां प्रोद्वहंतीं शिरोरुहान्
सुस्निग्धां वरदां सौम्यां द्वितीयाश्रमिणामिमाम्
नृसिंहः पञ्चतालः स्याद्धयग्रीवस्तु पंचमः
नवताला भवेद्दुर्गा लक्ष्मीश्चैव त्रितालिका
दक्षिणे वासुदेवस्य करे चक्रं प्रतिष्ठितम् 2.1.12.
तदधश्च भवेत्पद्मं श्रीवत्सेनोपशोभितम्
पार्श्वे नलिनसिंहौ द्वौ सुभद्रां दक्षिणे न्यसेत्
कृतांजलिपुटस्थश्च नारदः कपिलस्तथा
यदुग्रं वासुदेवस्य तथा नारायणस्य च
तीर्थे गिरौ तडागे च समीपे स्थापयेत्सुधीः
अविमुक्ते विशेषण सिद्धक्षेत्रे दशार्णके
कुलानि पूर्वं विप्रेंद्राः समुद्धरति नान्यथा
चंदनागुरुभिः कुर्याद्बिल्वश्रीपर्णिकस्य च
कुण्डनिर्माणविधिवर्णनम् तस्योद्धारं च संस्कारं शृणुध्वं द्विजसत्तमाः
चतुरस्रं च वृत्तं च पादार्धं चार्धचंद्रकम्
सप्तार्धं च नवार्धं च कुंडं दशकमीरितम्
भ्रामयेच्चोर्ध्वतस्तस्या भस्मांगाराणि यत्नतः
स्थानं विमर्दितं कुर्यात्खनित्वा सेचयेज्जलैः
अर्कांगुलमितं सूत्रं चतुरस्रं प्रकल्पयेत्
मापयेत्तेन मानेन त्रिवृत्तं कुंडमुज्ज्वलम्
वृत्तानि कालिकादीनि बहिस्त्रीणि विवर्जयेत्
दशधा भेदयेत्क्षेत्रे उर्ध्वाधोर्ध्वांगुलद्वयम्
पंचधा भेदिते क्षेत्रे कामं वा विभजेत्सुधीः 2.1.13.
योनिस्थानं प्रतिष्ठाप्य अश्वत्थस्य दलाकृतिः
चतुरस्रं समुद्धृत्य सूत्रं संकल्पयोगतः
शृंगाटकं युग्मपुटं षडस्रं कुंडत्रयं बुधाः
चतुस्रं भवेत्कुंडं द्विजसंस्कारकर्मणि