न कूपमुत्सृजेज्जातु वृक्षयागे कथंचन
न सेतुं देवयागे तु तडागं न समुत्सृजेत्
तंत्रे श्राद्धं पृथङ्नास्ति कर्तुर्भेदे पृथग्भवेत्
स्वदेशे वर्जयेत्तं तं स्वतन्त्रेण विधीयते
तडागे पुष्करिण्या वा आरामेऽपि द्विजोत्तमाः
द्विसहस्राधिकं यत्र तत्प्रतिष्ठां समाचरेत्
प्रतिष्ठां बिल्ववृक्षे च अन्यथा कर्णवेधनम्
अनंतरं प्रदातव्या लाजा मूर्ध्न्यक्षतादिकम् ।। 2.1.11.
प्रतिमालक्षणवर्णनम् प्रतिमां लक्षणैर्हीनां गृहीतां नैव पूजयेत्
शैलजा दारुजा ताम्री मृद्भवा सर्वकामदा
प्रासादमानमथवा अथवा सर्वलक्षणम्
देवागारस्य यद्द्वारं तस्मादष्टांगुलेन तु
अंगुलं वै भवेद्वृद्धिरशीतिश्चतुरुत्तरा
मुखत्रिभागे चिबुकं ललाटं नासिकां तथा
नयने द्व्यंगुले स्यातां त्रिभागा तारका भवेत्
ललाटमस्तकग्रीवं कुर्यात्तत्सममेव तु
तुल्यौ नासिकया ग्रीवा मुखेन हृदयांतरम्
बाहू च बाहुतुल्यौ च ऊरू जंघे च जाघनम् षडंगुलस्तु विस्तारस्तुल्यांगुष्ठोंऽगुलत्रयम् ।। 2.1.12.
प्रदेशिनी च तत्तुल्या हीना शेषान्नखानखम्
एवं लक्षणसंयुक्ता सा पूज्या प्रतिमा शुभा
गंडं च नियतं मूर्तौ कुर्यादंगसमुन्नतेः
सवितानल पत्रस्य चारुविद्याधरस्तथा
अभ्यंगपदबन्धादि सामान्येनोपशोभि च
कराभ्यां कांचनीं मालां प्रोद्वहंतीं शिरोरुहान्
सुस्निग्धां वरदां सौम्यां द्वितीयाश्रमिणामिमाम्
नृसिंहः पञ्चतालः स्याद्धयग्रीवस्तु पंचमः
नवताला भवेद्दुर्गा लक्ष्मीश्चैव त्रितालिका
दक्षिणे वासुदेवस्य करे चक्रं प्रतिष्ठितम् 2.1.12.
तदधश्च भवेत्पद्मं श्रीवत्सेनोपशोभितम्
पार्श्वे नलिनसिंहौ द्वौ सुभद्रां दक्षिणे न्यसेत्