पक्वाम्रं रुधिरं चैव दाडिमानां प्रशस्यते
क्षीरके बलवृद्धिः स्यात्तिंदुकः करमर्दकः
सपूतिमांसं सघृतं नालिकेरस्य रोहितम्
कपित्थबिल्वयोः सेकं गुडतोयेन सेचयेत्
गंधतोयसितकरं सर्पनिर्मोकधूपकम्
रथ्यावृक्षे प्रतिष्ठाप्य फलवाञ्जायते ततः
दद्याद्धूपं धान्यमध्ये धान्यवृद्धिश्च जायते
एरंडतैलयोगेन दद्याद्धूपं निशागमे 2.1.10.
करिविष्ठामृच्छविष्ठां कृत्तिकायां समाहरेत्
अश्वत्थमूले दशहस्तमात्रं क्षेत्रं पवित्रं पुरुषोत्तमस्य
बाहुविंशांतरे रोपेत्सहकारं स धर्मवित्
श्रैपर्णिकं च पुन्नागं श्रीवृक्षं द्विगुणं तरौ
शैलेष्टकादिरचिते चतुर्हस्ते तु संमिते
श्रीविष्णोर्वृक्षपक्षे च वरुणेष्टं च कूपके
अग्निकार्यं विना कुर्यात्प्रकुर्याच्च सतां गतिम्
अन्येषां चैव वृक्षे च तथा च तुलसीवने
वृक्षान्वानेन संस्कृत्य वासोभिरभिवेष्टयेत्
तुलस्याः सहकारस्य ब्रह्मवृक्षस्य चैव हि 2.1.10.
तन्त्रात्मकप्रतिष्ठावर्णनम् सूत उवाच अथ तंत्रविधिं वक्ष्ये पुराणेष्वपि गीयते
शतवृक्षक्षुद्रवृक्षे दशद्वादश वृक्षके
न कूपमुत्सृजेज्जातु वृक्षयागे कथंचन
न सेतुं देवयागे तु तडागं न समुत्सृजेत्
तंत्रे श्राद्धं पृथङ्नास्ति कर्तुर्भेदे पृथग्भवेत्
स्वदेशे वर्जयेत्तं तं स्वतन्त्रेण विधीयते
तडागे पुष्करिण्या वा आरामेऽपि द्विजोत्तमाः
द्विसहस्राधिकं यत्र तत्प्रतिष्ठां समाचरेत्
प्रतिष्ठां बिल्ववृक्षे च अन्यथा कर्णवेधनम्
अनंतरं प्रदातव्या लाजा मूर्ध्न्यक्षतादिकम् ।। 2.1.11.
प्रतिमालक्षणवर्णनम् प्रतिमां लक्षणैर्हीनां गृहीतां नैव पूजयेत्
शैलजा दारुजा ताम्री मृद्भवा सर्वकामदा