तस्माद्वरिष्ठः श्रीवृक्षो जंबूवृक्षः प्रशस्यते
तिंदुकस्य त्रयश्चैव जंबूवृक्षस्य पंचकम् एवमुक्त्वा स धर्मात्मा कारयेत्कीदृशं बलम्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
जन्मत्रयादिकं पापं विनाश्य स्वर्गमादिशेत्
तुलसीरोपणाच्चैत्र आधिव्याधियुतो भवेत्
आषाढे कीर्तिमाप्नोति श्रावणे परमां गतिम् तुलसी त्रिविधा लोके कृते श्वेता प्रशस्यते
किंचिच्छेदं च यः कुर्यादश्वत्थस्य वटस्य च
मूलच्छेदेन विप्रेंद्राः कुलपातो भवेदनु सायं प्रातश्च घर्मांते शीतकाले दिनांतरे ।। 2.1.10.
फलमामकुलत्थश्च माषो मुद्गास्तिला यवाः
अविकाकसकृच्चूर्णं यवचूर्णानि यानि च
तमेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदम्
तेनोदकादिसेकश्च कृतो वै वृद्धिमादिशेत्
तेनाशोके प्रसेकः स्यात्सहकारस्य वृद्धिमान्
दोहदं सर्ववृक्षाणां पूगादीनां विशेषतः
प्राक्प्रसूतिर्गवादीनां छागादिमहिषस्य च
परस्य सहकारस्य फलं स्यान्नात्र संशयः
तत्र मासैः सर्षपैश्च पूरयेन्मर्दयेत्ततः
मृतोऽपि जीवयेच्छीघ्रं म्रियमाणोऽपि जीवति 2.1.10.
क्षीरिकाताम्रकैः पत्रैर्धूमं दद्याद्दिनत्रयम्
ततः प्राधान्यतो वक्ष्ये द्रुमाणां दोहदोऽन्यथा
पक्वाम्रं रुधिरं चैव दाडिमानां प्रशस्यते
क्षीरके बलवृद्धिः स्यात्तिंदुकः करमर्दकः
सपूतिमांसं सघृतं नालिकेरस्य रोहितम्
कपित्थबिल्वयोः सेकं गुडतोयेन सेचयेत्
गंधतोयसितकरं सर्पनिर्मोकधूपकम्
रथ्यावृक्षे प्रतिष्ठाप्य फलवाञ्जायते ततः
दद्याद्धूपं धान्यमध्ये धान्यवृद्धिश्च जायते
एरंडतैलयोगेन दद्याद्धूपं निशागमे 2.1.10.
करिविष्ठामृच्छविष्ठां कृत्तिकायां समाहरेत्
अश्वत्थमूले दशहस्तमात्रं क्षेत्रं पवित्रं पुरुषोत्तमस्य