चक्राकारो लक्षहोमे कोटिहोमे हलाकृतिः
एवं शस्योदितां भूमिं शुद्धां पूर्वप्लवान्विताम्
सोमं च नागराजानं ततो बीजं सुशोधयेत्
दिनद्वयांतरे चैव मंत्रैश्च परिमंत्रयेत्
एवमस्येति मंत्रेण त्रिधा जप्त्वा विमार्जयेत्
इत्यगृहीतमनुना पञ्चधा परिमंत्रितम्
भार्यामृतुमतीं स्नात्वा पञ्चमेऽहनि सत्तमाः
एवं वृक्षस्य संस्कारमध्येऽपि त्वनुगच्छति
तुलस्या बीजमादाय वैष्णवर्क्षे द्विजोऽहनि 2.1.10.
एतां तु स्वर्गमाप्नोति सितकुंभे निपातयेत्
अविधौ कूपवाप्यादौ खनने सूयते क्वचित् लभंते न फलं तेषामिह चाभ्येत्यधोगतिम्
नदीतीरे श्मशाने च स्वगृहस्य च दक्षिणे
पत्रपुष्पफलानां च रजोरेणुसमागमाः
यस्तु वृक्षं प्रकुरुते छायापुष्पफलोपगम् कीर्तिश्च मानुषे लोके प्रत्यभ्येति शुभं फलम्
अतीतानागताश्चातः पितॄन्स स्वर्गतो द्विजाः
अपुत्रस्य हि पुत्रत्त्वं पादपा इह कुर्वते
शतैः पुत्रसहस्राणामेक एव विशिष्यते
मुक्तिहेतुः सहस्राणां लक्षकोटीनि यानि च
प्लक्षो भार्याप्रदश्चैव बिल्व आयुष्यदः स्मृतः 2.1.10.
तिंदुकात्कुलवृद्धिः स्याद्दाडिमी कामिनीप्रदः
स्वर्गप्रदा धातकी स्याद्वटो मोक्षप्रदायकः
सर्वशस्यं बलबले मधुके चार्जुने तथा
जीवंत्या रोगशांतिः स्यात्केशरः शत्रुमर्दनः
पनसे मंदबुद्धिः स्यात्कलि वृक्षः श्रियं हरेत्
तथा च मर्कटीनीपरोपणात्संततिक्षयः श्रीवृक्षं किंशुकं चैव रोपणात्स्वर्गमादिशेत्
मंदारे कुलहानिः स्याच्छाल्मले शुकबुद्धिमान्
उत्पन्ने कुलपातः स्या त्पशोरेव क्षयो भवेत्
विना क्रतौ विरुद्धश्च न सिंहं द्विजसत्तमाः 2.1.10.
सहकारसहस्रात्तु वरिष्ठं धातकीद्वयम्
पाटलानां शतात्पश्चादेकरक्तवटो भवेत्