प्रसन्नस्तु महीराजो गतः संयोगिनीं प्रति
संयोगिनी नृपं दृष्ट्वा मूर्च्छिता चाभवत्क्षणात्
जगाम देहलीं भूपः सर्वसैन्यसमन्वितः
दृष्ट्वा नैव तदा दोलां प्रजग्मुर्वेगवत्तराः
अर्द्धसैन्यं च संस्थाप्य स्वयं गेहमुपागमत् 3.3.6.
सूकरक्षेत्रमासाद्य युद्धाय समुपस्थितौ
स्वसैन्यैः सह संप्राप्य महद्युद्धमकारयन्
संकुलश्च महानासीद्दारुणो लोमहर्षणः
भयभीता परे तत्र ज्ञात्वा रात्रिं तमोवृताम्
प्रद्योताद्याश्च ते वीरा देहलीं प्रति संययुः
धुंधुकारश्च प्रद्योतं हृदि बाणैरताडयत्
भ्रातरं निहतं दृष्ट्वा विद्योतश्च महावलः
त्रिभिश्च तोमरैः सोऽपि मूर्छितो भूमिमागमत्
तदा कृष्णकुमारोऽसौ गजस्थस्त्वरितो ययौ
भल्लेन तेन संभिन्नो मृतः स्वर्गपुरं ययौ 3.3.6.
रत्नाभानुर्महावीरोऽयुध्यत्तेन समन्वितः
लक्षणं सहितं ताभ्यां क्रुद्धं तं समयुध्यत
रुद्रास्त्रैर्मोहयामास लक्षणं बलवत्तरम्
धुंधुकारं महीराजं वैष्णवैः सममोजयन्
उभौ समबलौ वीरौ गजपृष्ठस्थितौ रणे
युयुधाते बहून्मार्गान्कृतवंतौ सुदुर्जयौ
हते तस्मिन्महावीर्ये कान्यकुब्जा भयातुराः
रणं त्यक्त्वा गृहं जग्मुर्नृपशोकपरायणाः
स्वंस्वं निवेशनं जग्मुर्महीराजभयातुराः
महीराजस्तु बलवान्सप्तलक्षबलान्वितः 3.3.6.
तथा भीष्मः परिमलो लक्षणः पितरं स्वकम्
भूमिराजस्य विजयो जयचंदयशो रणे
जयचंद्रः कान्यकुब्जे देहल्यां पृथिवीपतिः
भीष्मः सिंहस्थिते गंगाकूले शक्रप्रपूजकः
मासांते भगवानिंद्रो ज्ञात्वा तद्भक्तिमुत्तमाम्