वाहयेत्सदा वृषभैस्तडागार्थेऽपि भूमिकाम्
या भूमिर्ग्रहयागार्थे तन्न वाहैरपि स्पृशेत्
वाहयेत्त्रिदिनं विप्राः पञ्चव्रीहींश्च वापयेत्
मुद्गमाषौ धान्य तिलाः श्यामाकश्चेति पञ्चमः
सर्षपश्च कलायश्च मुद्गो माषश्चतुर्थकः
सुवर्णमृत्तिका ग्राह्या वर्णानामनुपूर्वशः
अरत्निमात्रं विज्ञेयं प्रशस्तं यष्टिहस्तकम्
क्षीरदारुगर्तयुतं द्वादशांगुलमेव च ।। ज्वालयेत्तिलतैलेन तथा केशरजेन वा
पूर्वदिक्प्रणवे सिद्धिः पश्चिमाशागतिः शुभा 2.1.10.
कल्पे विपत्करं विद्यात्तथा चैव च दिग्गते
मासे घटे तथा मासं कुर्याद्भूमिपरिग्रहम्
ततो वास्तुबलिं दद्यात्खनित्रं परिपूजयेत्
आज्येन मधुयुक्तेन गात्रमेकं प्रलेपयेत्
ईशानाभिमुखेनैव कूपपक्षे विदुर्बुधाः
तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति
गृहारंभे च विप्रेंद्रा दद्याद्वास्तु बलिं ततः ।। शालैश्च खादिरैश्चैव पलाशैः केशरस्य च
बिल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते
सर्पाकारस्तडागे च कूपे कुम्भाकृतिर्भवेत्
कुर्याच्छुनाकृतिं सेतौ विष्णुगेहे गदाकृतिम् 2.1.10.
गोयागे च वृषाकारं गृहयागे ध्वजाकृतिम्
चक्राकारो लक्षहोमे कोटिहोमे हलाकृतिः
एवं शस्योदितां भूमिं शुद्धां पूर्वप्लवान्विताम्
सोमं च नागराजानं ततो बीजं सुशोधयेत्
दिनद्वयांतरे चैव मंत्रैश्च परिमंत्रयेत्
एवमस्येति मंत्रेण त्रिधा जप्त्वा विमार्जयेत्
इत्यगृहीतमनुना पञ्चधा परिमंत्रितम्
भार्यामृतुमतीं स्नात्वा पञ्चमेऽहनि सत्तमाः
एवं वृक्षस्य संस्कारमध्येऽपि त्वनुगच्छति
तुलस्या बीजमादाय वैष्णवर्क्षे द्विजोऽहनि 2.1.10.
एतां तु स्वर्गमाप्नोति सितकुंभे निपातयेत्