सूर्यरश्मियुतं यद्वै तत्तोयं तु विनिंदतम्
तस्माद्दशगुणं कुंडे तस्माद्दशगुणं ह्रदे
सुस्थितं दुःस्थितं वापि शिवलिंगं न चालयेत्
उच्छन्नगरग्रामे स्थानत्यागे च विप्लवे
केशवं हरिवृक्षं च मधूकं किंशुकं तथा
देवालयस्य पुरतः कुर्यात्पुष्करिणी द्विजाः
देवाथें ब्राह्मणार्थे च मुखं कुर्याच्च सर्वतः
याम्ये स्वार्थं न कुर्वीत कोणे तु नरकं भवेत्
कुर्याद्दक्षिणपूर्वे तु अर्कहस्तप्रमाणतः 2.1.9.
तृप्ये हस्तं नलिन्यादावतो हीनं न कारयेत्
हीने हीनतरं कुर्याद्धस्तमानेन ह्रासयेत् मानस्तथा षोडशहस्तसम्मितो रत्नात्सगण्डीयुगकामयोजितैः
आनाहभग्ने च भवेच्च तस्य विंशां गुलो द्विगुणो मध्यगश्च
एवंविधश्चैव तडागयूपो मध्ये तथा षोडशहस्तसंमितः
आरामयोगेऽप्यथ मण्डपे च कार्यश्चतुर्हस्तमितोऽथ यूपः हस्तद्वयं प्रापितव्यं तडागे हस्तः सार्धः पुष्करिण्यां प्ररोपः
प्रादेशं वै हस्तमानं कूपयूपस्य रोपतः
तडागे चापि आरामे स्थापयेच्च जलोपरि वाप्यां गर्ते पुष्करिण्यां प्रकुर्याज्जलसंमितम्
यावत्प्रतोलीगतरेणुसंगसंख्यागणो नो जरतामुपैति
किं वा वाच्यः पुष्करिण्या प्रभावः कर्ता यः स्याद्वारुणो ब्रह्मलोकात्
लक्षैकमाराममयोत्तमः स्यान्मध्यं तदर्धं च कनिष्ठमानम् विनार्जुनैर्बदरैः शैलुकैश्च हीनं कुर्याच्छानलैः पातिलैश्च ।। 2.1.9.
पूर्तनिर्णयवर्णनम् दशहस्तेन दण्डेन पञ्चहस्तेन वा पुनः
वाहयेत्सदा वृषभैस्तडागार्थेऽपि भूमिकाम्
या भूमिर्ग्रहयागार्थे तन्न वाहैरपि स्पृशेत्
वाहयेत्त्रिदिनं विप्राः पञ्चव्रीहींश्च वापयेत्
मुद्गमाषौ धान्य तिलाः श्यामाकश्चेति पञ्चमः
सर्षपश्च कलायश्च मुद्गो माषश्चतुर्थकः
सुवर्णमृत्तिका ग्राह्या वर्णानामनुपूर्वशः
अरत्निमात्रं विज्ञेयं प्रशस्तं यष्टिहस्तकम्
क्षीरदारुगर्तयुतं द्वादशांगुलमेव च ।। ज्वालयेत्तिलतैलेन तथा केशरजेन वा
पूर्वदिक्प्रणवे सिद्धिः पश्चिमाशागतिः शुभा 2.1.10.
कल्पे विपत्करं विद्यात्तथा चैव च दिग्गते