प्रसादे मृन्मयं पुण्यं मयैतत्कथितं द्विजाः
तृणमये शतमयं तदर्धं नववल्कले
ततो दशगुणं प्रोक्तमिष्टिकारचिते शुभे
ततश्च शतसाहस्रं सौवर्णे द्विजसत्तमाः
यदतीतं भविष्यच्च कुलानामयुतं नरः
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम्
हस्तानां पोडशैर्यावत्प्रस्थे स्यात्करहीनकम्
कनिष्ठं तारहस्तं स्यादुत्तमं पंचविंशतिः
पुरद्वारं च कर्तव्यं चतुरस्रं समं भवेत्
सुरवेश्मनि यावंतो द्विजेन्द्राः परमाणवः 2.1.9.
कर्तुर्दशगुणं प्रोक्तमापानपरिपालकः
पतितं पतमानं च तथार्द्धस्फुटितं तथा
पतितस्य तु यः कर्ता पतमानस्य रक्षिता
यः कुर्याद्विष्णुप्रासादं ज्योतिर्लिंगस्य वा क्वचित्
स्वयं स्वकुलमुद्धृत्य कल्पकोटिं वसेद्दिवि
देवीलिंगेषु योनौ वा कृत्वा देवकुलं नरः
प्रावृट्काले स्थितं तोयमग्निष्टोमफलं लभेत्
निदाघकाले पानीयं यस्य तिष्ठति वापिनः
एकाहं तु स्थितं तोयं पृथिव्यां द्विजसत्तमाः
पूर्वं पितृकुले सप्त तद्वन्मातृकुले द्विजाः 2.1.9.
पितुरूर्ध्वं कुलं विंशं मातुरूर्ध्व कुलं तथा
पंच वै मातृतश्चास्य पितुर्मातामहे कुले
गुरोः पितृकुले पंच तस्य मातृकुले तथा
राज्ञो मातामहकुले पंच चैव प्रकीर्तिताः
आत्मना सह विप्रेंद्रा उद्धारः संमतः स्मृतः
समुद्धरेत्कुलशतं शृणु विंशकुलं द्विज
मातुर्मातामहस्यैव जातिं द्वंद्वमुदाहृतम्
परपक्षस्य चैकं स्यादेकविंशं कुलं क्रमात्
पानीयेन विना वृत्तिर्लोके नास्तीति कर्हिचित्
तावत्कालं वसेत्स्वर्गे चान्ते ब्रह्मत्वमाप्नुयात् 2.1.9.