त्र्यहसाध्यविधानेन अष्टाविंशतिदेवताः
प्रत्यहं पूजयेत्तत्र जापकास्तत्र षोडश
चत्वारो याजकास्तत्र त्रयोविंशतिदेवताः
एकाहेनैव पूजा च मध्यमः कथितो विधिः
संपूज्य पूज्यते यत्र कनिष्ठोऽसौ विधिः स्मृतः
नलिनीदीर्घिकागर्तवापीमलप्रपादिकम्
अग्निकार्यं ततः कृत्वा न कुर्याद्विधिविस्तरम्
वाप्यादेः पुष्करिण्याश्च क्षिपेद्गंगाजलं ततः
सेतुप्रासादवापीनां प्रतिष्ठां नैव कारयेत्
त्रिभिर्वर्णैः प्रतिष्ठार्हा जीर्णानां तु समुद्गताः 2.1.9.
तस्मान्मानं प्रवक्ष्यामि यन्मानं यादृशं फलम्
एकषष्टिहस्तमितं प्रासादं चोत्तमं विदुः
अथ वा देवमानेन कर्तव्यं भूतिमिच्छता
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते
पुनः पुनश्च संस्कार्यो लभते मौक्तिकं फलम्
द्विशतेन शतेनापि प्रासादस्यैष निश्चयः
तडागं तं विजानीयात्प्रथमं मानमीरितम्
कनिष्ठं त्रिशतं चैव प्रस्थे स्याद्विंशहीनकम्
तडागमानं विज्ञेयं त्रिवर्गफलदायकम्
तडागे द्विगुणा नेमी मानार्धे गर्तमीरितम् 2.1.9.
चतुर्थं चैव गांधर्वं पैशाचं पंचमं विदुः
अशीतिहस्तमानेन नलिन्या मणिरुच्यते
षष्टिहस्तेन नलिनी प्रस्तावे तुर्यहीनकम्
तुर्यहीनं च प्रस्तावे गर्ते मानं न विद्यते
अग्नौ रोगो बंधुनाशश्च याम्यां मृत्युश्चोग्रः प्राप्यते राक्षसे च
विप्रादीनां देवतानां समाजे मेरुस्थाने यत्र तत्रैव कुर्यात्
यदा प्रतिष्ठां न करोति मूढः प्रासादवाप्यादिषु पापचेताः
यदा तु दीर्घासरसीतडागप्रासादकूपादिषु निर्मितानि
यदप्रतिष्ठेषु निपानकेषु प्रासादकूपेषु वनादिकेषु
तस्मात्प्रतिष्ठां विधिना जलादेः कुर्याद्यथेष्टं प्रयतो मनुष्यः 2.1.9.