एकमेवात्मकं ब्रह्म तत्प्रकृत्यात्मकं द्वयम्
रुद्र एकादशश्चैव अर्कार्कश्चापि द्वादशः
तिथ्यात्मकं पंचदशे षोडशाख्या कलापरा
अष्टादशाक्षरो मंत्रः पुराणात्मक एव च 2.1.8.
ज्योतिर्मयश्चैकविंशो द्वाविंशे केशवार्चनम्
पंचविंशे च तीर्थानि षड्विंशे च त्रियंबकः
त्रिंशद्योगे शिवः प्रोक्तः पातालमेकत्रिंशके
पंचत्रिंशे तदंतः स्याच्छते पूर्णे दिवाकरः
लक्षे ब्रह्मा तथा कोट्यां देवो नारायणः परः
शुद्धब्रह्ममयं नित्यं ज्ञानरूपं परं महत् क्षणे ब्रह्ममयं याति इत्याह भगवान्मनुः
पूर्तनिर्णयवर्णनम् बहिर्वेदं तथैवोक्तं शस्तं स्याद्द्वापरे कलौ
ज्ञानसाध्यं तु यत्कर्म अंतर्वेदीति कथ्यते
प्रपापूर्तादिकं चैव ब्राह्मणानां च तोषणम्
अकामेन कृतं कर्म कर्म च व्यसनादिकम्
धर्मस्य कारणं राजा धर्ममेतद्भवेन्नृपः
सप्ताशीतिर्बहिर्वेदी सारमेषां तृतीयकम्
तडागकरणं चैव तृतीयं न चतुर्थकम्
अधिवासः प्रतिष्ठा च देवतानामविक्रिया
त्रिविधा सा विनिर्दिष्टा उत्तमा चाथ मध्यमा
त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः 2.1.9.
त्र्यहसाध्यविधानेन अष्टाविंशतिदेवताः
प्रत्यहं पूजयेत्तत्र जापकास्तत्र षोडश
चत्वारो याजकास्तत्र त्रयोविंशतिदेवताः
एकाहेनैव पूजा च मध्यमः कथितो विधिः
संपूज्य पूज्यते यत्र कनिष्ठोऽसौ विधिः स्मृतः
नलिनीदीर्घिकागर्तवापीमलप्रपादिकम्
अग्निकार्यं ततः कृत्वा न कुर्याद्विधिविस्तरम्
वाप्यादेः पुष्करिण्याश्च क्षिपेद्गंगाजलं ततः
सेतुप्रासादवापीनां प्रतिष्ठां नैव कारयेत्
त्रिभिर्वर्णैः प्रतिष्ठार्हा जीर्णानां तु समुद्गताः 2.1.9.