तत्संग्रहेपि कविना नियोक्तव्यः स एव हि
तत्तदक्षरसख्यानां ब्रह्मलोकान्न तच्च्युतिः
मोहात्कृत्वा होमधेनुं दत्त्वा शुद्धिर्भविष्यति
कलौ यः संग्रहं कुर्यात्प्रसुप्ते चैव केशवे ।। 2.1.8.
यावत्प्रवर्तते लोकस्तावत्स्वर्गे महीयते
प्रातःकाले न कुर्वीत् तथा मध्यंदिने द्विजाः
मलमासे विशेषेण सन्ध्ययोश्च विवर्जने
पूतं स्यात्तत्क्षणाद्विप्राश्चतुः पंचाक्षरेण वा
मायाविभवविन्यस्ते महापापकलेवरे
स्त्रियो वा निंदितो वापि म्लेच्छो याति परां गतिम् स गर्दभीं खरीं योनिं प्रविशेन्नात्र संशयः
एकमेवात्मकं ब्रह्म तत्प्रकृत्यात्मकं द्वयम्
रुद्र एकादशश्चैव अर्कार्कश्चापि द्वादशः
तिथ्यात्मकं पंचदशे षोडशाख्या कलापरा
अष्टादशाक्षरो मंत्रः पुराणात्मक एव च 2.1.8.
ज्योतिर्मयश्चैकविंशो द्वाविंशे केशवार्चनम्
पंचविंशे च तीर्थानि षड्विंशे च त्रियंबकः
त्रिंशद्योगे शिवः प्रोक्तः पातालमेकत्रिंशके
पंचत्रिंशे तदंतः स्याच्छते पूर्णे दिवाकरः
लक्षे ब्रह्मा तथा कोट्यां देवो नारायणः परः
शुद्धब्रह्ममयं नित्यं ज्ञानरूपं परं महत् क्षणे ब्रह्ममयं याति इत्याह भगवान्मनुः
पूर्तनिर्णयवर्णनम् बहिर्वेदं तथैवोक्तं शस्तं स्याद्द्वापरे कलौ
ज्ञानसाध्यं तु यत्कर्म अंतर्वेदीति कथ्यते
प्रपापूर्तादिकं चैव ब्राह्मणानां च तोषणम्
अकामेन कृतं कर्म कर्म च व्यसनादिकम्
धर्मस्य कारणं राजा धर्ममेतद्भवेन्नृपः
सप्ताशीतिर्बहिर्वेदी सारमेषां तृतीयकम्
तडागकरणं चैव तृतीयं न चतुर्थकम्
अधिवासः प्रतिष्ठा च देवतानामविक्रिया
त्रिविधा सा विनिर्दिष्टा उत्तमा चाथ मध्यमा
त्रिधा भवति सर्वत्र प्रतिष्ठादिविधिर्मतः 2.1.9.