बुध्यमानः सदा ह्यर्थं ग्रंथार्थं कृत्स्नमेव च
वसेत्स पत्तने ग्रामे पुण्ये देशे स कीर्तितः वसंति पत्तने तस्मिन्व्याख्याता यत्र संवसेत्
यथार्कहीनं दिवसश्चंद्रहीना यथा निशा
यद्गृहे नैव शिशवो न रराज गृहं क्वचित् तथैव सोदर गेहे दृष्ट्वा पुष्करदर्शनम्
अङ्कमाहात्म्यवर्णनम् यच्छ्रुत्वा मुच्यते पापात्पुरुषो ब्रह्महत्यया
तृतीयं शैवमाख्यातं ततो भागवतं परम्
असामर्थ्ये च मात्स्योक्तं वैष्णवं च भविष्यकम्
पराशरमतं गृह्यं गोभिलोक्तानि यानि च
अंतरेणागते मर्त्ये शास्त्रं नाध्यापयेत्क्वचित्
मंडूके पंचरात्रं तु सर्पे रात्रिचतुष्टयम्
मासमेकं खरे काके स्थानत्यागान्न कुत्रचित्
त्रिरात्रमपि मार्जारे नकुले मूषके खरे
अध्यापयेद्गुरोः पुत्रं ज्ञानिनं धार्मिकं शुचिम्
अध्यात्माध्यापयेदेभ्यः शठं पापहरं द्विषम् 2.1.8.
निरर्थकं मंथरं च विशुश्रूषुमयाजकम्
निंदकं चाविधिज्ञं च दूरतः परिवर्जयेत्
विद्यया सह मर्तव्यं न दद्याच्च पृथग्जने
मा दद्याद्भक्तिहीनाय दुर्जनाय दुरात्मने
सार्थकाय विधिज्ञाय साधवे देहि सत्तम
तयोरेकतरो गच्छेदचिरेण यमक्षयम्
स याति नरकं घोरं विद्यावर्ज्यः स उच्यते
मानमादौ प्रणम्याथ ततोऽधीयीत सुव्रतः
चूतभोगसमभ्यासाद्दरिद्रश्चाभिजायते
निधिभागसमभ्यासाज्जायते नारके कुले 2.1.8.
म्लेच्छोक्तानि महिम्नानि नाभ्यसेद्दूरतस्त्यजेत्
प्रवर्तयित्वा स गुरुर्भवेज्जानप्रदः पिता
निगमानां ज्योतिषाणां वेदानां नाटकस्य च
वेदानां धर्भशास्त्राणां पुराणानां तथैव च
भागावसाने कथितः पुराणाध्याय एव च
व्यवहारश्चार्थशास्त्रमश्वशास्त्रस्य चैव हि