द्वात्रिंशदगुलैर्युक्तं कर्तव्यं पुस्तकोत्तमम्
चतुविशांगुलं यच्च तद्वै स्वधनमुच्यते
अष्टांगुलं भवेद्यच्च तत्कनिष्ठमिहोच्यते
ताडिता जलपत्रे च अथ वा चागुरुत्वचि
द्वादशांगुलकं यच्च भूर्जतैडादिनिर्मितम्
हस्तसंस्थापिते तस्य तेनायुष्यकरं भवेत्
स्वर्गमार्गस्य गमने भारते च तदर्धकम्
युगेयुगे पादहीनं धर्मं कुर्याद्यथारुचि
जैमिनिं च ततो व्यासं शंकरं च तथा हरिम् । 2.1.7.
ततः प्रवाचयेद्विप्रो धर्मशास्त्रार्थकोविदः
असंयुक्ताक्षरपदं स्पष्टभागसमन्वितम्
सामगाथाः समाश्रित्य रागयुक्तांतरं पठेत्
श्रीरागश्चैव हिल्लोलरागो वाजाविकस्तथा
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विशेषतः पापैः प्रमुच्यते सर्वैर्महापुण्यं च विंदति
शूद्राणां पुरतो वैश्यो वैश्यानां क्षत्रियः परः
न शूद्रः कथयेद्धर्मांस्तपअध्यापने तथा
शूद्रेणाधिगतं नास्ति विशेषाच्छब्दलक्षणम्
श्वशृगालखरीक्षीरमपेयं हि यथा भवेत्
अमेध्यं शुध्यते तोयैः शूद्रः श्रोता हि शुध्यति 2.1.7.
यः शूद्र उद्दिशेद्धर्मं तथा चागमवैदिकम्
बुध्यमानः सदा ह्यर्थं ग्रंथार्थं कृत्स्नमेव च
वसेत्स पत्तने ग्रामे पुण्ये देशे स कीर्तितः वसंति पत्तने तस्मिन्व्याख्याता यत्र संवसेत्
यथार्कहीनं दिवसश्चंद्रहीना यथा निशा
यद्गृहे नैव शिशवो न रराज गृहं क्वचित् तथैव सोदर गेहे दृष्ट्वा पुष्करदर्शनम्
अङ्कमाहात्म्यवर्णनम् यच्छ्रुत्वा मुच्यते पापात्पुरुषो ब्रह्महत्यया
तृतीयं शैवमाख्यातं ततो भागवतं परम्
असामर्थ्ये च मात्स्योक्तं वैष्णवं च भविष्यकम्
पराशरमतं गृह्यं गोभिलोक्तानि यानि च
अंतरेणागते मर्त्ये शास्त्रं नाध्यापयेत्क्वचित्
मंडूके पंचरात्रं तु सर्पे रात्रिचतुष्टयम्