अब्राह्मणेन लिखितं निष्फलं परिकीर्तितम्
पतितैरपि पाखंडैर्न स्त्री विलिखति क्वचित् न लिखेद्धर्मशास्त्रं च पुराणं स्तोत्रसंहितम्
तच्च प्राप्नुवन्कर्तव्यं सुवर्णरजतस्य च
जीवन्त्याश्च रसैर्युक्तैर्मणिकर्दमलोलुपैः
कृष्णे वायुप्रदं विद्यात्पीते वायुक्षयो भवेत्
इतिहासपुराणानां विलिखेद्यन्मुखाच्छृणु
पूर्वामुखे चार्थहानिरुत्तरे च मुखे श्रियः
पितृमेधे भुवः कंपे न लिखेज्जन्मवासरे
अत्र लेखाद्दरिद्रः स्यात्तथा पुत्रविनाशनम् 2.1.7.
पितृश्राद्धदिने लेखः कुलक्षयकरो भवेत्
अशोचेऽपि दरिद्रः स्याज्जन्माहे चायुषः क्षयः
द्रुतलेखी च तेजस्वी यो लेखयति लेखकः
लिपियुक्तः समायुक्तः एवागमलेखकः
कामरूपाक्षरैर्वापि यावच्च संहितागणः
यावदक्षरसंस्थानं तावत्स्वर्गे महीयते
लिखित्वा यस्तु पापात्मा यावदक्षर संख्यया
कुटुंबभरणार्थं तु गृह्णीयाद्वापि वेतनम्
पतितैरंत्यजैर्म्लेच्छै रोगी कुष्ठी क्षयी तथा
एतैर्विलिखितं यच्च धारयेन्न गृहाश्रमी 2.1.7.
हीनांगा प्रतिमा चैव पुस्तकं मानहीनकम्
द्वात्रिंशदगुलैर्युक्तं कर्तव्यं पुस्तकोत्तमम्
चतुविशांगुलं यच्च तद्वै स्वधनमुच्यते
अष्टांगुलं भवेद्यच्च तत्कनिष्ठमिहोच्यते
ताडिता जलपत्रे च अथ वा चागुरुत्वचि
द्वादशांगुलकं यच्च भूर्जतैडादिनिर्मितम्
हस्तसंस्थापिते तस्य तेनायुष्यकरं भवेत्
स्वर्गमार्गस्य गमने भारते च तदर्धकम्
युगेयुगे पादहीनं धर्मं कुर्याद्यथारुचि
जैमिनिं च ततो व्यासं शंकरं च तथा हरिम् । 2.1.7.
ततः प्रवाचयेद्विप्रो धर्मशास्त्रार्थकोविदः