पृथिवीराज एवासौ श्रुत्वा सैन्यमचोदयत्
रथाः पंचसहस्राश्च धनुर्बाणविशारदाः
राजानस्त्रिशतान्येव महीराजपदानुगाः
धुन्धुकारश्च तद्बन्धुर्गजानीकपतिस्सदा
पदातीनां नृपतयः पतयस्तत्र चाभवन् 3.3.6.
विंशत्कोशप्रमाणेन स्थितं तस्य महाबलम्
स्वसैन्यं कल्पयामास लक्षषोडशसंमितम्
वाजिनश्चाष्टलक्षाश्च सर्वयुद्धविशारदाः
आगस्कृतं महीराजं मत्वा ते शुक्लवंशिनः
ईशनद्याः परे कूले तद्दोला स्थपिता तदा
रत्नभानुर्गजानीके रूपानीके हि लक्षणः
प्रद्योतश्चैव विद्योतो रत्नभानुं ररक्षतुः
भूपाः पदातिसैन्ये च संस्थिता मदविह्वलाः
हया हयैर्मृता जाता गजाश्चैव गजैस्तथा
भूपैश्च रक्षिताः सर्वे निर्भया रणमाययुः 3.3.6.
एवं पंचदिनं जातं युद्धं वीरजनक्षयम्
पंचलक्षं महीभर्तुर्हतास्तत्र पदातयः
कान्यकुब्जाधिपस्यैव गजा नवसहस्रकाः
एकलक्षं हयास्तत्र मृताः स्वर्गपुरं ययुः
दुःखितो मनसा देवं रुद्रं तुष्टाव भक्तिमान्
प्रसन्नस्तु महीराजो गतः संयोगिनीं प्रति
संयोगिनी नृपं दृष्ट्वा मूर्च्छिता चाभवत्क्षणात्
जगाम देहलीं भूपः सर्वसैन्यसमन्वितः
दृष्ट्वा नैव तदा दोलां प्रजग्मुर्वेगवत्तराः
अर्द्धसैन्यं च संस्थाप्य स्वयं गेहमुपागमत् 3.3.6.
सूकरक्षेत्रमासाद्य युद्धाय समुपस्थितौ
स्वसैन्यैः सह संप्राप्य महद्युद्धमकारयन्
संकुलश्च महानासीद्दारुणो लोमहर्षणः
भयभीता परे तत्र ज्ञात्वा रात्रिं तमोवृताम्
प्रद्योताद्याश्च ते वीरा देहलीं प्रति संययुः