बृहत्क्षेत्रस्ततो ह्यासीत्पितुस्तुल्यं कृतं पदम्
वीतिहोत्रस्तस्य सुतो राज्यं दशसहस्रकम् 3.1.3.
शक्रहोत्रस्ततो जातः पितुस्तुल्यं कृतं पदम्
तदायोध्यापतिः श्रीमान्प्रतापेंद्रो महाबलः
मंडलीकस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
धनुर्दीप्तस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
हस्तीनाम सुतो जात ऐरावतसुतं गजम्
आरुह्य पश्चिमे देशे हस्तिनानगरी कृता
राज्यं दशसहस्रं च तत्र वासं चकार सः
तस्माजातो रक्षपालः पितुस्तुल्यं कृतं पदम्
तस्य पुत्रः कुरुर्नाम पितुरर्द्धं कृतं पदम्
तदा सात्त्वतवंशेऽस्मिन्वृष्णिर्नाम महाबलः 3.1.3.
भगवतो वरदानेन हरेरद्भुतकर्मणः
निरावृत्तिस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
वियामुनस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
विकृतिस्तस्य तनयः पितुस्तुल्यं कृतं पदम्
तस्माज्जातो नवरथः पितुस्तुल्यं कृतं पदम्
तस्माज्जातश्च शकुनिः पितुस्तुल्यं कृतं पदम्
तस्माज्जातो देवरथः पितुस्तुल्यं कृतं पदम्
तस्य पुत्रो मधुर्नाम पितुस्तुल्यं कृतं पदम्
कुरुवत्सस्त स्य सुतः पितुस्तुल्यं कृतं पदम्
पुरुहोत्रः सुतस्तस्य पितुस्तुल्यं कृतं पदम् 3.1.3.
तस्मात्सात्वतवान्पुत्रः पितुस्तुल्यं कृतं पदम्
विदूरथस्तस्य सुतः पितुस्तुल्यं कृतं पदम्
तस्माच्च सुमनाः पुत्रः पितुस्तुल्यं कृतं पदम्
स्वायंभुवस्तस्य सुतः पितुस्तुल्यं कृंतं पदम्
देवमेधास्सुतस्तस्य पितुस्तुल्यं कृतं पदम्
शक्राज्ञया कुरुश्चैव द्वापर त्रितये पदे
आगतो भारते खंडे कुरुक्षेत्रं तदा कृतम्
द्वादशाब्दसहस्रं च कुरुणा राज्यसात्कृतम्