विष्ण्वन्ते च भवेन्मुक्तिः सूर्यांऽते पादविच्युतिः
अनंते विपुला कीर्तिः सरस्वत्यां धनागमः
मुक्तिमाप्नोति गायत्र्या इति पंक्तिफलोदयः
ब्रह्मेन्द्रवैष्णवं शैवं शाक्तिकं च महेश्वरी
वैष्णवं परमं दैवं यच्छैवं तल्ललाटकम्
अग्रे स्थिता ग्रहाः सर्वे दिशामीशास्तथा द्विजाः
द्वावापृथिव्यौ पातालं तस्यांतः समुदाहृतम्
न शस्यः पूजनीयश्च गृहे स्थाप्येत मानवः
स याति ब्रह्मसदनं मणिवर्त्मादिकुट्टिमम् 2.1.7.
पत्राणामग्रभागे तु वेधं कुर्यात्सुवर्तुलम्
संहितागमतन्त्रेषु प्रतिवेधे च संकुलम्
मध्यं तस्य हरेदायुः पार्श्ववेधः शिवं हरेत्
परमं प्रकृतेर्गुह्यं स्थानं देवैर्विनिर्मितम्
अशक्तो बिल्वकाष्ठस्य तथा श्रीपर्णिकस्य च
प्रागारंभश्लोकशतं धर्मशास्त्रस्य वै लिखेत्
ब्रह्मचर्येण विलिखेन्न मोहाद्ब्रह्मणः क्वचित्
अनामात्वे हेमयुतां बलाकं चित्तमेव च
गारुडस्य च स्कान्दस्य न लिखेन्मध्यतन्त्रकम्
गृहस्थो न लिखेद्ग्रंथं लिखेच्च मथुरां विना 2.1.7.
वाल्मीकिसंहितायाश्च लेखने च तथा क्वचित्
अब्राह्मणेन लिखितं निष्फलं परिकीर्तितम्
पतितैरपि पाखंडैर्न स्त्री विलिखति क्वचित् न लिखेद्धर्मशास्त्रं च पुराणं स्तोत्रसंहितम्
तच्च प्राप्नुवन्कर्तव्यं सुवर्णरजतस्य च
जीवन्त्याश्च रसैर्युक्तैर्मणिकर्दमलोलुपैः
कृष्णे वायुप्रदं विद्यात्पीते वायुक्षयो भवेत्
इतिहासपुराणानां विलिखेद्यन्मुखाच्छृणु
पूर्वामुखे चार्थहानिरुत्तरे च मुखे श्रियः
पितृमेधे भुवः कंपे न लिखेज्जन्मवासरे
अत्र लेखाद्दरिद्रः स्यात्तथा पुत्रविनाशनम् 2.1.7.
पितृश्राद्धदिने लेखः कुलक्षयकरो भवेत्