गुरोरनुज्ञया पित्रोः प्रकुर्यादभिवादनम्
न विष्णुर्न च ब्रह्मा च न च रुद्रः शचीपतिः
सर्वज्ञानमयं चैव सर्वज्ञेन च तत्समम्
गुरुभ्यो वंदनं व्यर्थ पितरं यो न तर्पयेत् उभयोस्तर्पणं नास्ति जीवन्नपि न जीवति
पुराणश्रवणं पुण्यं शून्यं भागवतं यदि
आदिपर्वणि हीने तु भारताख्यं न धारयेत्
दानकर्मविहीनं च मोक्षधर्मं न धारयेत
वायुपुराणमश्रुत्वा शास्त्रं च यौगिकं विना
तथा वायुपुराणं यद्विहीनं श्रव्यमन्यकम् 2.1.7.
लंकां विना चादिकांडं तल्लिखित्वा न धारयेत्
दक्षं विना न शंखं च शंखहीनं बृहस्पतिम्
संस्थापनादेव विना न च किमपि राक्षसैः
न हरेत्पुस्तकं चापि न हरेदक्षराणि षट्
आद्याक्षरस्य हरणात्ताम्रकुष्ठी भवेदिह
कुवले असिपत्रे च पततीह न संशयः
तस्मात्पुस्तकमात्रं यो हरेन्नरकमाप्नुयात्
तानि वेदागमादीनि पुस्तकेष्वपि वाचयेत्
तथा तन्त्रोदितान्मंत्राँल्लिखित्वा तन्न वाचयेत्
स्फुटं कृत्वा पुरः स्थाप्य यावत्कालं प्रवर्तते 2.1.7.
न वाचयेच्च व्याख्याता वाचकोऽपि प्रवाचयेत्
वेदार्थं वाचयेद्यस्माद्विपरीतोऽपवाचकः
आदिमध्यावसाने च मन्त्रे च प्रणवं दिशेत्
त्रिदेवं पुस्तकं विद्यात्सूत्रं वासुकिरुच्यते
पत्राणि भगवान्ब्रह्मा ऊर्ध्वदीर्घाणि यानि च
लिपी भंगी महेशः स्यात्तस्या मात्रा सरस्वती
चतुष्पादांतरे युग्मं मध्यमोंऽते युगं युगम्
भारते चेतिहासे च पुराणे द्विजसत्तमाः
वक्तृनामाक्षरैर्युक्तं पंक्तिभेदेन सत्तमाः
आत्मसंशुद्धिसंशुद्ध्या धारयेद्धर्म संहिताम् 2.1.7.
रिपुः सूर्यस्तयारामो यक्षोऽनंतः सरस्वती