शुद्धौदनं यवक्षीरं पायसं कृशरं तथा
शालिभक्तं सगोधूमं तिलाक्षतविमिश्रितम्
पृथक्पृथक्चैव कांस्ये विन्यसेद्दिक्षु मध्यतः
शीतोदकं मधु क्षीरं सितेक्ष्वोश्च रसो गुडः
शालितंडुलप्रस्थं तु तदर्धं वा तदर्धकम्
क्षीरं भागाष्टकं ग्राह्यं सप्तभागेन संस्थितम्
अशीतिपलमानेन सिद्धमासादयेत्ततः
गुडमिश्रेण यो दद्यात्संपर्को जायते क्वचित् गृहीत्वा याचकः शुद्धः शृणुत द्विजसत्तमाः
शृणुते वाधीयानो यो दद्याद्धस्ते च पुस्तकम् 2.1.7.
पूर्वस्थः श्रावको विप्रो विख्यातस्तस्यदक्षिणे
प्रस्तरेणापि हस्तेन विन्यासः पंडितैः सदा
असकृद्विन्यसेद्विप्राः पावमानीं जले जपेत्
यमदिक्संमुखे श्रोता वाचकश्चोत्तरामुखः
वैपरीत्येन विधिना विज्ञेयो द्विजसत्तमाः
इतोऽन्यथा यातुधानाः प्रलुंपंति फलं यतः
श्रुत्वा प्रति पुण्यविद्यां योऽश्नीयान्मांसमेव तु
यदि देवालये तीर्थे वाचयेच्छृणुयादथ
माहात्म्यश्रवणादेव गोदानस्य फलं लभेत् पितुर्माहात्म्यं यत्पुत्रैर्वाच्यं संसदि पर्वणि
वासुदेवामतश्चापि रुद्रमाहात्म्यवर्णनम् 2.1.7.
दुर्गाग्रे शिवसूर्यस्य वैष्णवाख्यानमेव च
गुरोरनुज्ञया पित्रोः प्रकुर्यादभिवादनम्
न विष्णुर्न च ब्रह्मा च न च रुद्रः शचीपतिः
सर्वज्ञानमयं चैव सर्वज्ञेन च तत्समम्
गुरुभ्यो वंदनं व्यर्थ पितरं यो न तर्पयेत् उभयोस्तर्पणं नास्ति जीवन्नपि न जीवति
पुराणश्रवणं पुण्यं शून्यं भागवतं यदि
आदिपर्वणि हीने तु भारताख्यं न धारयेत्
दानकर्मविहीनं च मोक्षधर्मं न धारयेत
वायुपुराणमश्रुत्वा शास्त्रं च यौगिकं विना
तथा वायुपुराणं यद्विहीनं श्रव्यमन्यकम् 2.1.7.
लंकां विना चादिकांडं तल्लिखित्वा न धारयेत्