मंत्रदाता गुरुः ख्यातस्सप्तमः परिकीर्तितः
दृष्टदेवं च यो हित्वा अदृष्टं च निषेवते
यथा पिता ज्येष्ठपिता कनीयांश्च तथा द्विजाः 2.1.6.
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः
पिता मेरुर्व शिष्ठः स्याद्धर्ममूर्तिः सनातनः
पितामहं च पित्रग्रे हव्यकव्यैश्च तर्पयेत्
तस्य पादोदकस्नानाद्गंगा नार्हति केवलम्
द्वात्रिं शत्कुंडकशिलास्पर्शने यादृशं फलम्
शतमातृवरिष्ठाश्च पितामह्याश्च पोषणे
गुरुवर्णनम् श्रवणेपि च धर्मात्मञ्छ्रूयतां यन्मया पुरा
पृष्टोवोचन्महातेजा विरिंचो भगवान्प्रभुः
इतिहासपुराणानि श्रुत्वा भक्त्या द्विजोत्तमाः
सायं प्रातस्तथा रात्रौ शुचिर्भूत्वा शृणोति यः
प्रत्यूषे भगवान्ब्रह्मा दिनांते तुष्यते हरिः
शुक्लवस्त्रधरश्चैव चैलाजिनकुशोत्तरः
दिक्पतिभ्यो नमस्कृत्य ऊँकाराधिष्ठितानपि
पुस्तकं धर्मशास्त्रस्य धर्माधिष्ठानशाश्वतम्
जामलानां गणपतिर्डामराणां शतक्रतुः
आदित्यो वासुदेवश्च माधवो रामकेशवौ ।। 2.1.7.
वनमाली महादेवः सप्तानां सप्तपर्वसु अथ चादिपुराणस्य विरिंचिः परिकीर्तितः
शुद्धौदनं यवक्षीरं पायसं कृशरं तथा
शालिभक्तं सगोधूमं तिलाक्षतविमिश्रितम्
पृथक्पृथक्चैव कांस्ये विन्यसेद्दिक्षु मध्यतः
शीतोदकं मधु क्षीरं सितेक्ष्वोश्च रसो गुडः
शालितंडुलप्रस्थं तु तदर्धं वा तदर्धकम्
क्षीरं भागाष्टकं ग्राह्यं सप्तभागेन संस्थितम्
अशीतिपलमानेन सिद्धमासादयेत्ततः
गुडमिश्रेण यो दद्यात्संपर्को जायते क्वचित् गृहीत्वा याचकः शुद्धः शृणुत द्विजसत्तमाः
शृणुते वाधीयानो यो दद्याद्धस्ते च पुस्तकम् 2.1.7.
पूर्वस्थः श्रावको विप्रो विख्यातस्तस्यदक्षिणे