सर्वेषां च सवर्णानां धर्मतो ब्राह्मणः प्रभुः 2.1.5.
प्रजापतेर्मुखोद्भूतो होरातंत्रे यथोदितम्
गंगाहीनो हतो देशो विप्रहीना यथा क्रिया
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः
स्थापयेद्धर्मतो विप्रं भावयेत्कर्मवृद्धये
प्रत्यक्प्रदर्शनात्पुण्यं त्रिदिनं कल्मषापहम्
न व्रात्यत्वं सूर्यविप्रे पूजयेद्यज्ञसिद्धये
जातिभेदाश्च चत्वारो भोजकः कथकस्तथा
कथको मध्यमस्तेषां सूर्यविप्रस्तथोत्तमः
सूर्यविप्रस्य विप्रस्य वैद्यस्य च नृपस्य च अवध्यः सर्वलोकेषु राजा राज्येन पालयेत्
वसुभिर्वस्त्रगंधाद्यैर्माल्यैश्च विविधैरपि 2.1.5.
सूर्यचक्रविदः पूज्या नावमन्येत्कथंचन गणविप्रसमः पूज्यो दैवज्ञः समुदाहृतः
जाते बाले निरूप्ये च लग्नग्रहनिरूपणम् द्विमात्रिकां समभ्यस्य सर्ववेदफलं लभेत्
गुरुवर्णनम् ऋते पितुर्द्विजश्रेष्ठा इतीयं नैगमी स्मृतिः
त्रयोऽपि गुरवः श्रेष्ठास्ताभ्यां माता परो गुरुः
द्वादश्यां तु आमवास्यामथ वा रविसंक्रमे
अयने विषुवे चैव चंद्रसूर्यग्रहे तथा
पश्चात्प्रवंदयेत्पादौ मंत्रेणानेन सत्तमाः
स्वर्गापवर्गप्रदमेकमाद्यं ब्रह्मस्वरूपं पितरं नमामि
पितरो जनयंतीह पितरः पालयंति च
यस्माद्विजयते लोकस्तस्माद्धर्मः प्रवर्तते
या कुक्षिविवरे कृत्वा स्वयं रक्षति सर्वतः
त्वत्प्रसादाज्जगद्दृष्टं मातर्नित्यं नमोऽस्तु ते ।। 2.1.6.
पृथिव्यां यानि तीर्थानि सागरादीनि सर्वशः
गुरुदेवप्रसादेन लब्धा विद्या यशस्करी
वेद वेदांगशास्त्राणां तत्त्वं यत्र प्रतिष्ठितम्
ब्राह्मणो जगतां तीर्थं पावनं परमं यतः
पितामहं च प्रणमेत्सर्वादौ मातरं गुरुम्
मातृमंत्रैश्च प्रथमं प्रणमेद्भक्तिभावतः
दृष्टादृष्टे च स गुरुर्गुरुर्माता तथा गुरुः