पक्वान्नं शूद्रगेहे च यो भुंक्ते सकृदेव वा ।। 2.1.5.
अष्टकुष्ठान्वितः कुष्ठी त्रिकुष्ठी शास्त्रनिन्दितः
कीटवद्भ्रमणं यस्य कुव्यापारी कुपंडितः
अविमुक्तं परित्यज्य योऽन्यदेशे वसेच्चिरम्
कपोलेन हि संयुक्तो भ्रुकुटीकुटिलाननः
ब्रह्मस्वहरणं कृत्वा नृपदेव स्वमेव च
संतर्पयति योऽश्नाति यः प्रयच्छति वा क्वचित्
अक्षराभ्यासनिरतः पठत्येव न बुध्यते
वदत्यन्यत्करोत्यन्यद्गुरुदेवाग्रतो यतः
षड्गुणालंकृतेः साधोर्दोषान्मृगयते खलः
दैवेन च विहीनो यः कुसंभाषां वदेत्तु यः 2.1.5.
चांडालैः सह आलापः पक्षिणां पोषणे रतः
तृणच्छेदी लोष्टमदी वृथा मांसाशनश्च यः
नित्यक्रिया अकुर्वाणो नित्यं स च मलीमसः
अन्यायेन गृहं विंदेदन्यायेन गृहान्धनम्
देवपुस्तकरत्नानि मणिमुक्ताश्वमेव च
अन्योन्यभावना कार्या स स्तेयी यो न भावयेत्
गुरोः प्रसादाज्जयति पित्रोश्चापि प्रसादतः
न पोषयति दुष्टात्मा स स्तेयी चापरः स्मृतः
उपकारिजनं प्राप्य न करोति परिष्क्रियाम्
सर्वेषां च सवर्णानां धर्मतो ब्राह्मणः प्रभुः 2.1.5.
प्रजापतेर्मुखोद्भूतो होरातंत्रे यथोदितम्
गंगाहीनो हतो देशो विप्रहीना यथा क्रिया
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः
स्थापयेद्धर्मतो विप्रं भावयेत्कर्मवृद्धये
प्रत्यक्प्रदर्शनात्पुण्यं त्रिदिनं कल्मषापहम्
न व्रात्यत्वं सूर्यविप्रे पूजयेद्यज्ञसिद्धये
जातिभेदाश्च चत्वारो भोजकः कथकस्तथा
कथको मध्यमस्तेषां सूर्यविप्रस्तथोत्तमः
सूर्यविप्रस्य विप्रस्य वैद्यस्य च नृपस्य च अवध्यः सर्वलोकेषु राजा राज्येन पालयेत्