मोक्षचिन्तामतिक्रम्य योऽन्यचिन्तापरिश्रमः 2.1.5.
प्रयागे विद्यमानेऽपि योऽन्यत्र स्नानमाचरेत्
आयुषस्तु क्षयार्थाय शास्त्रेयमृषिसंमतः
बहूनि पुस्तकानीह शास्त्राणि विविधानि च
बलेन च्छलछद्मेन उपायेन प्रबंधनम्
मधुरान्नं प्रतिष्ठाप्य दैवे पित्र्ये च कर्मणि
कृपणः स तु विज्ञेयो न स्वर्गी न च मोक्षभाक्
स एव कृपणः ख्यातः सर्वधर्मबहिष्कृतः
पितृमातृगुरुत्यागी शौचाचारविवर्जितः
जीवत्पितृपरित्यक्तं सुतं सेवन्न वा क्वचित्
साध्वाचारं च प्रच्छाय सेवनं चापि दर्शयेत् 2.1.5.
जीवेद्देवलवृत्तिर्यः भार्याविपणजीवकः
षडेव नष्टाः शास्त्रे च न स्वर्गमोक्षभागिनः
भ्रुकुटीकुटिलः क्रुद्धो रुष्टः पंचविधोदितः
निद्रालुर्व्यसनासक्तो मद्यपः स्र्त्रीनिषेवकः
एकाकी मिष्टमश्नाति वंचकः साधुनिंदकः
निगमागमतंत्राणि नाध्यापयति यो द्विजः
श्रुतिः स्मृतिश्च विप्राणां नयने द्वे विनिर्मिते
विवादः सोदरैः सार्द्धं पित्रोरप्रियकृद्वदेत्
पिशुनो राजगामी च शूद्रसेवक एव च
पक्वान्नं शूद्रगेहे च यो भुंक्ते सकृदेव वा ।। 2.1.5.
अष्टकुष्ठान्वितः कुष्ठी त्रिकुष्ठी शास्त्रनिन्दितः
कीटवद्भ्रमणं यस्य कुव्यापारी कुपंडितः
अविमुक्तं परित्यज्य योऽन्यदेशे वसेच्चिरम्
कपोलेन हि संयुक्तो भ्रुकुटीकुटिलाननः
ब्रह्मस्वहरणं कृत्वा नृपदेव स्वमेव च
संतर्पयति योऽश्नाति यः प्रयच्छति वा क्वचित्
अक्षराभ्यासनिरतः पठत्येव न बुध्यते
वदत्यन्यत्करोत्यन्यद्गुरुदेवाग्रतो यतः
षड्गुणालंकृतेः साधोर्दोषान्मृगयते खलः