वर्जयेद्वासरान्सप्त इति चाथर्वणी श्रुतिः
कर्मानुसारव्यक्तिनिर्धारणवर्णनम् संसृष्टा ब्राह्मणाः पूर्वं तपस्तप्त्वा द्विजोत्तमाः
हव्यानामिह कव्यानां सर्वस्यापि च गुप्तये
कव्यानि चैव पितरः किं भूतमधिकं ततः
स्वकीयं ब्राह्मणो भुंक्ते विदधाति द्विजोत्तमाः
भवेद्विप्रो न संदेहस्तुष्टो भावाय वै भवेत्
गर्भाधानादयश्चेह संस्कारा यस्य सत्तमाः स याति ब्रह्मणः स्थानं ब्राह्मणत्वेन संयुतः
संस्कारपूतः प्रथमो वेदपूतो द्वितीयकः
क्षेत्रपूतं प्रविज्ञाय विपूतं पूजयेद्द्विजाः
पूतानां परमः पूतो गुरूणां परमो गुरुः
पूजयित्वा द्विजान्देवाः स्वर्गं भुञ्जंति चाक्षयम् 2.1.5.
यस्य विप्राः प्रसीदंति तस्य विष्णुः प्रसीदति
यस्माद्विष्णुमुखाद्विप्रः समुद्भूतः पुरा द्विजाः
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि
पितृयज्ञविवाहेषु वह्निकार्येषु शांतिषु
देवा भुञ्जंति हव्यानि बलिं प्रेतादयोऽसुराः
देवेभ्यश्च पितृभ्यश्च यो ददयाद्यज्ञकर्मसु
विना विप्रं च यो धर्मः प्रयासफलमात्रकः
तस्माद्ब्राह्मणमाहूय तस्य पूजां च कारयेत्
श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्
अनभिवादिनां विप्रे द्वेषादश्रद्धयापि च । 2.1.5.
आयुर्वृद्धिर्यशोर्वृद्धिर्वृद्धिर्विद्याधनस्य च
न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिगर्जितानि
षद्विंशतिदोषमाहुर्नरा नरकभीरवः
ते स्वर्गे पितृलोके च ब्रह्मलोकेष्ववस्थिताः
अन्यथा न वसेद्वासस्तस्मात्स्तेयी न पालयेत्
पापिष्ठो नष्टकष्टौ च रुष्टो दुष्टश्च मुक्तकः
चण्डः खण्डश्च वक्ता च दत्तस्यापहरस्तथा
मलीमसश्च ते दोषाः षड्विंशतिरमी मताः
शृणुध्वं द्विजशार्दूलाः शास्त्रेस्मिन्ब्रुवतः क्रमात्