भक्तस्थानं तदूर्ध्वं च देवो हि भगवान्रविः राशिचक्रे च भ्रमति मेरोरुपरि सत्तमाः
. बिंबषट्केद्रिनाभौ च रथचक्रं दिवानिशम्
दिक्पालाद्या ग्रहास्तत्र दक्षिणादुत्तरायणम्
रविणा लंघितो मासश्चांद्रः ख्यातो मलिम्लुचः
कृत्वा त्रिषु त्वहोरात्रं तारामयगतं विभुम्
दिवा चरति यः सूर्यो रात्रौ चरति चन्द्रमाः
देशान्नं चावगमनं यत्र तस्मादिवाभवत् 2.1.4.
रात्रिंदिवं विजानीयाज्ज्योतिश्चक्रे प्रतिष्ठितम्
यन्नक्षत्रे च यो देशः स तेषामुदयः स्मृतः
तदा काले नियोक्तव्या भार्गवास्तादिकी क्रिया
दक्षिणायनमास्थाय यदा चरति रश्मिमान्
विस्तीर्णमंडलं कृत्वा तस्योर्ध्वे चरते शशी
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः
तस्माच्छनैश्चरादूर्ध्वं ततः सप्तर्षिमंडलम्
कालचक्रमये चक्रे सूर्यो भवति सर्वदा
स्तंभते चरते शीघ्रं ह्रासे चापि दिनक्षयः
पादास्ते पक्षमात्रं स्यान्महास्ते याममात्रकम् 2.1.4.
न गण्यते देशभेदे नक्षत्रेण च गण्यते
बाल्यवार्द्ध्ये क्षत्रियस्य न गण्येते सदा बुधैः
शेषार्धं भार्गवास्तस्य शूद्राणामथ गर्हितम्
वर्जयेद्वासरान्सप्त इति चाथर्वणी श्रुतिः
कर्मानुसारव्यक्तिनिर्धारणवर्णनम् संसृष्टा ब्राह्मणाः पूर्वं तपस्तप्त्वा द्विजोत्तमाः
हव्यानामिह कव्यानां सर्वस्यापि च गुप्तये
कव्यानि चैव पितरः किं भूतमधिकं ततः
स्वकीयं ब्राह्मणो भुंक्ते विदधाति द्विजोत्तमाः
भवेद्विप्रो न संदेहस्तुष्टो भावाय वै भवेत्
गर्भाधानादयश्चेह संस्कारा यस्य सत्तमाः स याति ब्रह्मणः स्थानं ब्राह्मणत्वेन संयुतः
संस्कारपूतः प्रथमो वेदपूतो द्वितीयकः
क्षेत्रपूतं प्रविज्ञाय विपूतं पूजयेद्द्विजाः
पूतानां परमः पूतो गुरूणां परमो गुरुः