क्षीरोदेक्षुरसोदोऽथ क्षारोदश्च घृतोदकः
पंचाशत्कोटिविस्तीर्णा समुद्रवलया स्मृता
जंबूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः
चतुराशीतिसाहस्रयोजनैरस्य चोच्छ्रयः
मूले षोडशसाहस्रं विस्तारस्तस्य सर्वतः
हिमवान्हिमकूटश्च निषधस्त स्य दक्षिणे
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।।2.1.4.
भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम्
चंपकं चोत्तरं वर्षं तथैवाश्वहिरण्मयम्
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः
मेरोश्चतुर्दिशस्तत्र नवसाहस्रविष्कृतम्
विष्कंभा रचिता मेरोर्योजनायुतमुच्छ्रिताः
विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः
जंबूद्वीपस्य सा जंबूर्नामहेतोर्महर्षयः
पतंति भूभृतः पृष्ठे शीर्यमाणानि सर्वशः
सरित्तु वर्तते सापि पीयते तत्र वासिभिः उत्पन्नाः स्वच्छमनसो नरास्तत्र भवन्ति वै
तीरसूत्रं समं प्राप्य वायुना च विशोषितम् 2.1.4.
भद्राश्वः पार्श्वतो मेरोः केतुमालश्च पश्चिमे
मेरोरुपरि विप्रेंद्रा ब्रह्मणः स्थानमुत्तमम्
तदूर्ध्वं वैष्णवो लोको दुगार्लोकस्तदूर्ध्वतः
भक्तस्थानं तदूर्ध्वं च देवो हि भगवान्रविः राशिचक्रे च भ्रमति मेरोरुपरि सत्तमाः
. बिंबषट्केद्रिनाभौ च रथचक्रं दिवानिशम्
दिक्पालाद्या ग्रहास्तत्र दक्षिणादुत्तरायणम्
रविणा लंघितो मासश्चांद्रः ख्यातो मलिम्लुचः
कृत्वा त्रिषु त्वहोरात्रं तारामयगतं विभुम्
दिवा चरति यः सूर्यो रात्रौ चरति चन्द्रमाः
देशान्नं चावगमनं यत्र तस्मादिवाभवत् 2.1.4.
रात्रिंदिवं विजानीयाज्ज्योतिश्चक्रे प्रतिष्ठितम्
यन्नक्षत्रे च यो देशः स तेषामुदयः स्मृतः
तदा काले नियोक्तव्या भार्गवास्तादिकी क्रिया