उत्पन्नं तस्य देहेषु भूयः कालेन पीडयेत्
पातालवर्णनम् कल्पाभिकरणे तत्र संस्थिता द्विजपुङ्गवाः
जनलोको महर्लोकात्तथा कोटिद्वयात्मकः
जनलोकात्तपोलोकः कोटित्रयसमन्वितः
प्राजापत्यात्तु भूर्लोकः कोटिषट्केन संयुतः
तत्र लोके गुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः
गायंति यतयो गाथा ह्यास्तिका ब्रह्मवादिनः
द्वारं तु योगिनामेकं गच्छतां परमं पदम्
सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम्
तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे
स विष्णुर्लोककथितः पुनरावृत्तिवर्जितः 2.1.3.
ऊर्ध्वं ब्रह्मासनात्पूर्वं परं ज्योतिर्मयं शुभम्
देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः
तत्र ते यांति नियता द्विजा वै ब्रह्मवादिनः
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः
एते सप्त महर्लोकाः पृथिव्यां परिकीर्तिताः
महातलं हैमतलं सर्ववर्णोपशोभितम्
अनंतेन समायुक्तं मुचुकुन्देन धीमता
शैलं रसातलं विप्राः शांकरं हि रसातलम्
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम्
रसातलमिति ख्यातं सर्वशोभासमन्वितम् 2.1.3.
शंकुकर्णेन संभिन्नं तथा नमुचिपूर्वकम्
तेषामधस्तान्नरका रौरवाद्याश्च कोटयः
पाताला नामधश्चांते शेषाख्या वैष्णवी तनुः
योऽनंतः पठ्यते देवो नागरूपी जनार्दनः
तमाविश्य महायोगी कालस्तद्वदनानलः
तामसी शांभवी मूर्तिः कालात्मा परमेश्वरः
ज्योतिश्चक्रवर्णनम् अतः परं प्रवक्ष्यामि भूर्लोकस्य विनिर्णयम्
तद्द्वीपप्रधानो जंबूः प्लक्षः शाल्मल एव च
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः