ब्रह्मविष्णुमोहनार्थं ततः शंभुस्तु तेजसा
व्यामोहयित्वा तत्सर्वं तेजसाऽमोहयज्जगत्
ब्रह्मा विष्णुश्च द्वावेतावुद्भूतौ भगवत्सुतौ
उपसंहरते चैव नानाभूतानि सर्वशः 2.1.2.
चतुर्दश तु तान्येवं कल्प इत्यभिधीयते
एवं मासश्च वर्षश्च तथा चाष्टशतं द्विजाः
ब्रह्मादिस्तंबपर्यंतं निमेषश्च ध्रुवस्य वै
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च प्रकीर्तितः
पातालं वितलं तद्धि अतलं तलमेव च
एतेषु सप्तविख्याता अधःपातालवासिनः
ग्रसते जायते लोकान्क्रीडार्थं तु महेश्वरः
पृथिवीं चांतरिक्षं च दिशश्च विदिशस्तथा
समुद्राणां च विस्तारं प्रमाणं च ततः शृणु
चतुष्पदानां द्विपदां तथा धर्मैकभाषिणाम् 2.1.2.
सहस्रगुणशीलाश्च इत्याह भगवान्मुनिः
तस्या ब्रह्मा प्रकृत्यास्तु उत्पन्नः सह विष्णुना
तस्मात्स्वयंभुवो ब्रह्मा ब्राह्मणान्समकल्पयत्
चतुर्थ पादहीनांश्च आचारेषु बहिष्कृतान्
लोकालोकस्य संस्था च द्वीपानामुदधेस्तथा
मेघस्तनितनिर्घोषरोहितेंद्रधनूंषि च
उत्पन्नं तस्य देहेषु भूयः कालेन पीडयेत्
पातालवर्णनम् कल्पाभिकरणे तत्र संस्थिता द्विजपुङ्गवाः
जनलोको महर्लोकात्तथा कोटिद्वयात्मकः
जनलोकात्तपोलोकः कोटित्रयसमन्वितः
प्राजापत्यात्तु भूर्लोकः कोटिषट्केन संयुतः
तत्र लोके गुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः
गायंति यतयो गाथा ह्यास्तिका ब्रह्मवादिनः
द्वारं तु योगिनामेकं गच्छतां परमं पदम्
सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम्
तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे