इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे । महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्
कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत्
अगमा भूमिराजाय चान्या परिमलाय सा
विवाहांते च भूराजा दुर्गमन्यमकारयत्
देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता
विस्मितः स नृपो भूत्वा देहली नाम चाकरोत्
त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः
किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् 3.3.5.
नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः
दूतं वै प्रेषयामास राजराजो मदोत्कटः
यदा निराकृता धूर्ता मया ते चंद्रवंशिनः
त्वया षोडशलक्षं च युद्धसैन्यं समाहृतम्
भवान्न दंड्यो बलवान्करं मे दातुमर्हति
इति ज्ञात्वा तयोर्घोरं वैरं चासीन्महीतले
जयचंद्रश्च बलवान्पृथिवीराजभीरुकः
पृथिवीराज एवासौ तथार्द्धं राष्ट्रमानयत्
दिशं याम्यां स वै जित्वा तेषां कोशानुपाहरत्
महीराजस्तु तच्छुत्वा परं विस्मयमागतः
तिलका नाम विख्याता या तु वीरवती शुभा
जयचंद्रस्य भूपस्य योषितः षोडशाभवन्
गौडभूपस्य दुहिता नाम्ना दिव्यविभावरी
रूपयौवन संयुक्ता रतिकेलिविशारदा
तस्यां जाता सुता देवी नाम्ना संयोगिनी शुभा
तस्याः स्वयंवरे राजाह्वयद्भूपान्महाशुभान् मंत्रिप्रवर भो मित्र चंद्रभट्ट मम प्रिय
कान्यकुब्जपुरीं प्राप्य मन्मूर्तिं स्वर्णनिर्मिताम् स्थापय त्वं सभामध्ये यद्वृत्तांतं तु मे वद ।। 3.3.6.
इति श्रुत्वा चंद्रभट्टो भवानीभक्तितत्परः
स्वयंवरे च भूपाश्च नानादेश्याः समागताः
पितरं प्राह कामाक्षी यस्य मूर्तिरियं नृप
जयचंद्रस्तु तच्छ्रुत्वा चंद्रभद्रमुवाच तम्
सञ्जयेद्योगिनीमेतां तर्हि मेऽतिप्रियो भवेत्