धर्मेण धार्यते सर्वं जगत्स्थावरजंगमम्
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम्
निवृत्तिं सेवमानस्तु याति तत्परमं पदम्
शमो दमो दया दानमलोभस्त्याग एव च 2.1.1.
सत्यं संतोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः
अहिंसा सत्यवादित्वमपैशुन्यं सुकल्पता
श्रद्धापूर्वाः स्मृता धर्माः श्रद्धामध्ये तु संस्थिताः
प्राजापत्यं ब्राह्मणानां श्रुतं स्थानं क्रियावताम्
वैश्यानाममृतं स्थानं स्वधर्ममनुवर्तताम्
अष्टाशीति सहस्राणां मुनीनामूर्ध्वरेतसाम्
सप्तर्षीणां तु यत्स्थानं श्रुतं तद्वै वनौकसाम्
यतीनां यतचित्तानां तदेव वनवासिनाम्
योगिनाममृतं स्थानं व्योमाख्यं परमाकरम्
सृष्टिवर्णनम् वक्ष्ये कल्पानुसारेण मन्वतरशतानुगम्
आसीत्तमोमयं सर्वमप्रज्ञातमलक्षणम्
आत्मना स्वयमात्मानं सञ्चित्य भगवान्विभुः
अहंकारात्प्रजानाति महाभूतानि पञ्च च
शब्दः स्पर्शश्च रूपं च रसो गंधस्तथैव च
सत्त्वं रजस्तमश्चैव गुणाः प्रोक्तास्तु ते त्रयः
ब्रह्मविष्णुमोहनार्थं ततः शंभुस्तु तेजसा
व्यामोहयित्वा तत्सर्वं तेजसाऽमोहयज्जगत्
ब्रह्मा विष्णुश्च द्वावेतावुद्भूतौ भगवत्सुतौ
उपसंहरते चैव नानाभूतानि सर्वशः 2.1.2.
चतुर्दश तु तान्येवं कल्प इत्यभिधीयते
एवं मासश्च वर्षश्च तथा चाष्टशतं द्विजाः
ब्रह्मादिस्तंबपर्यंतं निमेषश्च ध्रुवस्य वै
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च प्रकीर्तितः
पातालं वितलं तद्धि अतलं तलमेव च
एतेषु सप्तविख्याता अधःपातालवासिनः