मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । सूत उवाच नमस्कृत्य जगद्योनिं ब्रह्मरूपधरं हरिम्
यच्छ्रुत्वा पापकर्माणि स गच्छेत्परमां गतिम्
भविष्यपुराणमखिलं यज्जगाद गदाधरः
धर्मप्रशंसनं चात्र ब्राह्मणादिप्रशंसनम्
प्रतिमाकरणं चैव स्थापनाचित्रलक्षणम् 2.1.1.
पुराणलक्षणं चैव भूगोलस्य च निर्णयम्
मुमूर्षोरपि यत्कर्म दानमाहात्म्यमेव च
उच्चावचावधानं च प्रायश्चित्तादिकं च यत्
पंचतंत्रसमायुक्तं प्रतितंत्रे च विंशतिः
त्रयाणामाश्रमाणां च गृहस्थो योनिरुच्यते
एकाश्रमं गृहस्थस्य त्रयाणां मूर्तिदर्शनम्
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ
तडागस्य च सान्निध्ये तडागं परिवर्जयेत्
धर्मात्संजायते ह्यर्थो धर्मात्कामोऽभिजायते
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः 2.1.1.
ऊर्ध्वं गच्छंति सत्त्वस्था मध्ये तिष्ठंति राजसाः
यस्मिन्धर्मः समायुक्तो ह्यर्थकामौ व्यवस्थितौ
तस्मादर्थं च कामं च युक्त्वा धर्मं समाश्रयेत्
एवं धर्मस्य मध्येऽयं चतुर्वर्गः प्रदर्शितः माहात्म्यं वानुतिष्ठेच्च स चानंत्याय कल्पते
तस्मादर्थं च कामं च मुक्त्वा धर्मं समाचरेत्
धर्मेण धार्यते सर्वं जगत्स्थावरजंगमम्
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम्
निवृत्तिं सेवमानस्तु याति तत्परमं पदम्
शमो दमो दया दानमलोभस्त्याग एव च 2.1.1.
सत्यं संतोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः
अहिंसा सत्यवादित्वमपैशुन्यं सुकल्पता
श्रद्धापूर्वाः स्मृता धर्माः श्रद्धामध्ये तु संस्थिताः
प्राजापत्यं ब्राह्मणानां श्रुतं स्थानं क्रियावताम्
वैश्यानाममृतं स्थानं स्वधर्ममनुवर्तताम्