वर्णस्य शबलत्वाच्च यमः कल्माष उच्यते
स्थितो दक्षिणत तस्य दंडहस्तसमन्वितः
कुबेरो धनदो ज्ञेयो हस्तिरूपो विनायकः कुबेरः कुशरीरत्वात्स नाम्ना धनदः स्मृतः
नायकः सर्वसत्त्वानां तेन नायक उच्यते
रैवतश्चैव दिंडिश्च तौ रवेः पूर्वतः स्थितौ 1.124.
प्लुतं गच्छत्यसौ यस्मात्सर्वलोकनमस्कृतः
डीङ्गतावस्य वै धातोर्दिंडिशब्दो निपात्यते
इत्येते प्रवराः प्रोक्ता धात्वर्था नैगमैः शुभैः
अश्विनौ तौ ततो ज्ञेयौ दंडनायकपिंगलौ
रेवतश्चैव दिंडिश्च इत्येते प्रवरा मया
इत्येभिर्नामभिस्त्वन्ये दानवानां जिघांसया
सरूपाश्चान्यरूपाश्च विरूपाः कामरूपिणः
धातुर्दिविति वै प्रोक्तो क्रीडायां स तु उच्यते
ऋचो यजूंषि सामानि यान्युक्तानीह वै मया
ते श्रुत्वाराध्य देवेशं संसिद्धा दिवि संस्थिताः ।। 1.124.
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे ब्रह्मर्षिसंवादे प्रवरवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः
पातालवर्णनम् ॐ नमः कमलदलनयनाभिरामाय स्वच्छं चंद्रावदातं कविकरमकरक्षोभसंजातफेनं बक्षोद्भूतिप्रसूक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः
१ जयति भुवनदीपो भास्करो लोककर्ता जयति च शितिदेहः शार्ङ्गधन्वा मुरारिः
नमस्कृत्याप्रमेयाय देवाय ब्रह्मरूपिणे
पुराणसंहितां पुण्यां पप्रच्छू रौमहर्षणिम्
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । सूत उवाच नमस्कृत्य जगद्योनिं ब्रह्मरूपधरं हरिम्
यच्छ्रुत्वा पापकर्माणि स गच्छेत्परमां गतिम्
भविष्यपुराणमखिलं यज्जगाद गदाधरः
धर्मप्रशंसनं चात्र ब्राह्मणादिप्रशंसनम्
प्रतिमाकरणं चैव स्थापनाचित्रलक्षणम् 2.1.1.
पुराणलक्षणं चैव भूगोलस्य च निर्णयम्
मुमूर्षोरपि यत्कर्म दानमाहात्म्यमेव च
उच्चावचावधानं च प्रायश्चित्तादिकं च यत्
पंचतंत्रसमायुक्तं प्रतितंत्रे च विंशतिः
त्रयाणामाश्रमाणां च गृहस्थो योनिरुच्यते