अनंतस्य भवेत्पद्मं वासुकेः स्यात्तथोत्पलम्
पद्मस्य तु भवेत्पद्मं शूलं पद्मेतरस्य तु 1.36.
अनंतकपिलौ विप्रौ क्षत्रियौ शंखवासुकी पद्मकर्कोटकौ शूद्रौ सदा ज्ञेयौ मनीषिभिः
अनंतकुलिकौ वर्णतो ब्रह्मसंभवौ
तक्षकश्च महापद्म ईषत्पीतौ बभूवतुः
हयं यानं वृषं छत्रं राजानमथ पावकम्
पूर्णकुम्भः पताका च कांचनं मणयस्तथा एतेषां दर्शनं श्रेष्ठं कन्या चैकप्रसूयिका
चतुःषष्टिः समाख्याता भोगिनो ये तु पन्नगाः । अदृश्यास्तेषु षट्त्रिंशद्दृश्यास्त्रिंशन्महीचराः
विंशच्च स्रग्विणः प्रोक्ताः सप्त मंडलिनस्तथा । राजीवन्तो दश प्रोक्ता दर्व्यः षोडश पंच च
दुंदुभो डुंडुभश्चैव चेटभश्चेंद्रवाहनः एवमेव तु सर्पाणां शतद्विनवति स्मृतम्
वराहकर्णीं गजपिप्पलीं च गांधारिकां पिप्पलदेवदारु
लक्षणं सर्वैनागानां रूपवर्णौ विषं तथा ॥ 1.36.
तस्मात्संपूजयेन्नागान्सदा भक्त्या समन्वितः
श्रावणे मासि पंचम्यां शुक्लपक्षे नरा धिप । द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः
पूजयेद्विधिवद्द्वारं दधिदूर्वाक्षतैः कुशैः । गंधपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः
ये त्वस्यां पूजंतीह नागान्भक्तिपुरःसराः।। न तेषां सर्वपतो वीर भयं भवति कर्हिचित्
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः
पूजयेद्गंधपुष्पैश्च सर्पिः पायसगुग्गुलैः
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्
इति श्रीभविष्ये महापुराणे शतर्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोध्यायः
सुमंतुरुवाच तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन
घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः
नागाः प्रीता भवंतीह शांतिमाप्नोति वा विभो
इत्येष कथितो वीर पञ्चमीकल्प उत्तमः । यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः
ॐ कुरुकुल्ले फट् स्वाहा
ब्रह्मोवाच व्योम्नः परं तिष्ठति यस्तु मग्नः स मुच्यते रुद्र इहापि दिंडी
स्थित्वा पुरा ब्रह्मशिरः किलासौ प्रगृह्य तत्तस्य शिरःकपालम्
नग्नो यदा दारुवने मुनीनां दृष्ट्वा च तं भैक्ष्यचरं सुरेशम् विहाय दिंडिः स तु तान्सुरर्षींस्ततो रवेर्लोकमथाजगाम
आगच्छमानं प्रमथास्तमूचुर्देवेश नित्यं भ्रमसे किमर्थम्