प्रद्योतश्चैव विद्योतः क्षत्रियौ चद्रवंशजौ
प्रद्योततनयो जातो नाम्ना परिमलो बली
विद्योताद्भीष्मसिंहश्च गजसेनाधिपोऽभवत्
दृष्ट्वा तान्विप्रियान्सर्वान्निजराज्यान्निराकरोत्
कान्यकुब्जपुरं प्राप्य जयचंद्रमवर्णयन्
मातामहस्य ते राज्यं प्राप्तवान्निर्भयो बली
सर्वराज्यं कथं भुंक्षे श्रुत्वा तेन निराकृताः
इति श्रुत्वा महीपालो जयचंद्र उवाच तान् 3.3.5.
नाम्ना परिमलः शूरस्त्वं मन्मंत्री भवाधुना
वृत्त्यर्थे च मया वो वै पुरी दत्ता महावती
इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे । महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्
कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत्
अगमा भूमिराजाय चान्या परिमलाय सा
विवाहांते च भूराजा दुर्गमन्यमकारयत्
देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता
विस्मितः स नृपो भूत्वा देहली नाम चाकरोत्
त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः
किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् 3.3.5.
नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः
दूतं वै प्रेषयामास राजराजो मदोत्कटः
यदा निराकृता धूर्ता मया ते चंद्रवंशिनः
त्वया षोडशलक्षं च युद्धसैन्यं समाहृतम्
भवान्न दंड्यो बलवान्करं मे दातुमर्हति
इति ज्ञात्वा तयोर्घोरं वैरं चासीन्महीतले
जयचंद्रश्च बलवान्पृथिवीराजभीरुकः
पृथिवीराज एवासौ तथार्द्धं राष्ट्रमानयत्
दिशं याम्यां स वै जित्वा तेषां कोशानुपाहरत्
महीराजस्तु तच्छुत्वा परं विस्मयमागतः
तिलका नाम विख्याता या तु वीरवती शुभा
जयचंद्रस्य भूपस्य योषितः षोडशाभवन्