चतुर्विधा इह प्रोक्ताः पन्नगास्तु महात्मना
दर्वीकरा वातविषा मंडला पैत्तिकाः स्मृताः 1.36.
रक्तं परीक्षयेदेषां सर्पाणां तु पृथक्पृथक्
रक्तं घनं च बहुशः शोणितं मंडली कृतम्
सर्पा ज्ञेयास्तु चत्वारः पंचमो नोपलभ्यते
ब्राह्मणे मधुरं दद्यात्तिक्तं दद्यात्तथोत्तरे
ब्राह्मणेन तु दष्टस्य दाहो गात्रेषु जायते
श्यामवर्णं मुखं च स्यान्मज्जास्तंभश्च जायते
अश्वगंधाप्यपामार्गः सिंदुवारं सुरामयम् एतेनैवोपचारेण सुखी भवति मानवः
क्षत्रियेण तु दष्टस्य कंपो गात्रेषु जायते
जायते वेदना तस्य ऊर्ध्वं चैव निरीक्षते
अर्कमूलमपामार्गं प्रियंगुमिन्द्रवारुणीम् एतेनैवोपचारेण सुखी भवति मानवः ।। 1.36.
वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु
मूर्छा च प्रबला यस्य आत्मानं नाभिनंदति
अश्वगंधा सगोमूत्रा गृह धूमं सगुग्गुलम्
गोमूत्रेण समायुक्तं पानं नस्यं च दापयेत्
शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गौतम
अंगानि चुलुचुलायंते शूद्रदष्टस्य लक्षणम्
पद्मं च लोध्रकं चैव क्षौद्रं पद्मस्य केसरम्
एतानि समभागानि पेषयेच्छीतवारिणा
पूर्वाह्णे चरते विप्रो मध्याह्ने क्षत्रियश्चरेत्
आहारो वायुपुष्पाणि ब्राह्मणानां विदुर्बुधाः वैश्या मंडूकभक्षाश्च शूद्राः सर्वाशिनस्तथा ।।1.36.
अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु
मदकाले तु संप्राप्ते पीड्यमाना महाविषाः
पुष्पगंधाः स्मृता विप्राः क्षत्रियाश्चंदनावहाः
वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः वसंति ब्राह्मणाः सर्पा ग्रामद्वारे चतुष्पथे
आरामेषु पवित्रेषु शुचिष्वायतनेषु च
श्मशाने भस्मशालासु पलालेषु तटेषु च
अविविक्तेषु स्थानेषु निर्जनेषु वनेषु च
श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः