यद्याज्ञवल्क्यमुनिना भगवान्वशिष्ठः पृष्टः किलोत्तरमुवाच बहुप्रकारम्
जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे समाप्तिवर्णनं श्रीकृष्णस्य द्वारकां प्रति गमनवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः
अनुक्रमणिकाकथनम् ( अथ वृत्तांताः माया च वैष्णवी यस्मात्संसारे दोषकीर्तनम् ।। १ पापभेदस्ततस्तस्माच्छुभाशुभविनिर्णयः
अशोककरवीराख्यं व्रतं तस्माच्च कोकिलम्
द्वितीयाव्रतमाहात्म्यमशून्य शयनं तथा
पंचाग्निसाधना रम्या तृतीयाव्रतमुत्तमम्
ललिताख्या तृतीया च योगाख्या च तथापरा
सौभाग्याख्या तृतीया च आर्द्रानंदकरी था
अनंतरी तृतीया च गणशांतिव्रतं तथा
तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी
ललिताव्रतषष्ठी च षष्ठी कार्तिकसंज्ञिता 4.208.
आदित्यमंडपविधिस्त्रयोदशीति सप्तमी
सप्तमी कमलाख्या च तथान्या शुभसप्तमी
स्नपनव्रतसप्तम्यौ तथैवाचल सप्तमी
दूर्वाकृष्णाष्टमी प्रोक्ता अनयाव्रतमष्टमी
ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा
रोहिणींहरिशंभुब्रह्मसूर्यावियोगकम्
नीराजनद्वादशी च भीष्मपंचकमेव च
श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम्
अखंडद्वादशीनाम तिलद्वादश्यतः परम्
विशोकद्वादशी नाम विभूतिद्वादशीव्रतम् 4.208.
अनंगद्वादशी चैव अङ्गपादव्रतं तथा अनंगद्वादशी चापि पालिरम्भाव्रते तथा
चतुर्दशीव्रतं प्रोक्तं ततोऽनन्तचतुर्दशी
व्रतं शिवचतुर्दश्यां फलत्यागचतुर्दशी
कार्तिक्यां कृत्तिकायोगे कृत्तिकाव्रतमीरितम्
अशोकपूर्णिमा नाम अनंतव्रतमेव च
शिवनक्षत्रपुरुषं संपूर्णं येन मुच्यते
आदित्यस्य दिने नक्तं संक्रात्युद्यापने फलम्
अर्घः शुक्रबृहस्पत्योः पंचाशीति व्रतानि च