कान्यकुब्जाधिपायैव चंद्रकान्तिं पिताददत्
सोमेश्वराय भूपाय चपहानिकुलाय तु
जयशर्मा द्विजः कश्चित्समाधिस्थो हिमालये
त्यक्त्वा देहं स शुद्धात्मा चंद्रकांत्याः सुतोभवत् रत्नभानुश्च संजज्ञे शूरस्तस्यानुजो बली
स जित्वा गौडवंगादीन्मरुदेशान्मदोत्कटान्
गंगासिंहस्य भगिनी नाम्ना वीरवती शुभा
नकुलांशस्तदा भूमौ तस्यां जातः शिवाज्ञया स सप्ताब्दान्तरे प्राप्ते पितुस्तुल्यो बभूव ह
त्रयश्च कीर्तिमालिन्यां पुत्रा जाता मदोत्कटाः पृथिवीराज एवासौ ततोनुज इति स्मृतः ।। 3.3.5.
द्वादशाब्दवयः प्राप्तः सिंहखेलस्ततोऽभवत् गत्वा हिमेगिरिं रम्यं योगध्यानपरोभवत्
मथुरायां धुंधकारोऽजमेरे च ततोनुजः
प्रद्योतश्चैव विद्योतः क्षत्रियौ चद्रवंशजौ
प्रद्योततनयो जातो नाम्ना परिमलो बली
विद्योताद्भीष्मसिंहश्च गजसेनाधिपोऽभवत्
दृष्ट्वा तान्विप्रियान्सर्वान्निजराज्यान्निराकरोत्
कान्यकुब्जपुरं प्राप्य जयचंद्रमवर्णयन्
मातामहस्य ते राज्यं प्राप्तवान्निर्भयो बली
सर्वराज्यं कथं भुंक्षे श्रुत्वा तेन निराकृताः
इति श्रुत्वा महीपालो जयचंद्र उवाच तान् 3.3.5.
नाम्ना परिमलः शूरस्त्वं मन्मंत्री भवाधुना
वृत्त्यर्थे च मया वो वै पुरी दत्ता महावती
इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे । महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्
कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत्
अगमा भूमिराजाय चान्या परिमलाय सा
विवाहांते च भूराजा दुर्गमन्यमकारयत्
देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता
विस्मितः स नृपो भूत्वा देहली नाम चाकरोत्
त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः
किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् 3.3.5.
नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः
दूतं वै प्रेषयामास राजराजो मदोत्कटः