भविष्योत्तरमेतत्ते कथितं पांडुनंदन
यद्दृष्टमितिहासेषु पुराणेषु च भारत
लोकवेदविरुद्धं यत्कथ्यते मनुजोत्तम
अतिस्नेहेन भवतो ममैतत्समुदाहृतम्
नैतत्प्रकाशनीयं हि दांभिकाय शठाय वा
साधुवृत्ताय दांताय सत्यार्जवरताय च
सामान्यमेतत्सुरसत्तमानां वर्णाश्रमाणां च नरेंद्रचन्द्र 4.207.
धर्मः स्वयं पार्थ भवानिह त्वं धर्मार्थविद्दृष्टपरावरश्च
यास्याम्यहं द्वारवतीं पुनश्च यज्ञं समेष्यामि महोत्सवे च
इत्युक्तवान्यातुकामः प्रहृष्टः संपूजितः पांडुसुतैर्महात्मा
यद्याज्ञवल्क्यमुनिना भगवान्वशिष्ठः पृष्टः किलोत्तरमुवाच बहुप्रकारम्
जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे समाप्तिवर्णनं श्रीकृष्णस्य द्वारकां प्रति गमनवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः
अनुक्रमणिकाकथनम् ( अथ वृत्तांताः माया च वैष्णवी यस्मात्संसारे दोषकीर्तनम् ।। १ पापभेदस्ततस्तस्माच्छुभाशुभविनिर्णयः
अशोककरवीराख्यं व्रतं तस्माच्च कोकिलम्
द्वितीयाव्रतमाहात्म्यमशून्य शयनं तथा
पंचाग्निसाधना रम्या तृतीयाव्रतमुत्तमम्
ललिताख्या तृतीया च योगाख्या च तथापरा
सौभाग्याख्या तृतीया च आर्द्रानंदकरी था
अनंतरी तृतीया च गणशांतिव्रतं तथा
तथा श्रीपंचमी नाम षष्ठी शोकप्रणाशिनी
ललिताव्रतषष्ठी च षष्ठी कार्तिकसंज्ञिता 4.208.
आदित्यमंडपविधिस्त्रयोदशीति सप्तमी
सप्तमी कमलाख्या च तथान्या शुभसप्तमी
स्नपनव्रतसप्तम्यौ तथैवाचल सप्तमी
दूर्वाकृष्णाष्टमी प्रोक्ता अनयाव्रतमष्टमी
ध्वजाख्या नवमी चैव उल्काख्या नवमी तथा
रोहिणींहरिशंभुब्रह्मसूर्यावियोगकम्
नीराजनद्वादशी च भीष्मपंचकमेव च
श्रवणद्वादशी नाम संप्राप्तिद्वादशीव्रतम्