यदा सोमदिनयुक्ता भवेत्पंचदशी क्वचित्
तदा स्नानं नरः कुर्यात्पंचगव्यं च सर्षपैः
शूद्रोऽपि परया भक्त्या पाखंडालापवर्जितः
कृतजप्यः स्वभवनमागत्य मधुसूदनम्
सोमाय शांताय नमोऽस्तु पादावनंतनाम्ने ह्यनुजानु जंघे
नमोनमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया
नमोऽस्तु चन्द्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या 4.206.
नासा च नाथाय वनौषधीनां ह्यानंन्ददायाथ पुनर्भ्रुवोश्च
नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय
शिरः शशांकाय नमोऽसुरारेर्विश्वेश्वरायेति नमः किरीटम्
देवीं च संपूज्य सुगन्धधूपनेवद्यपुष्पादिभिरिंदुपत्नीम्
देयः प्रभाते स हिरण्यवारिकुंभो मनःपापविनाशनाय। संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च
ग्रासान्पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम्
अम्लानकुब्जानथ सिंदुवारपुष्पं पुनर्नारद मल्लिकायाः
यस्मिन्मासे व्रतादिः स्यात्पुष्पैरभ्यर्चयेद्धरिम्
एकसंवत्सरं यावदुपोष्य विधिवन्नरः
रोहिणचंद्रमिथुनं कारयित्वा तु कांचनम् 4.206.
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्
दद्यान्मंत्रेणे पूर्वाह्ने शालीक्षुफलसंयुतम्
सवस्त्रभाजनां धेनुं तथा शंखं च शोभनम्
चंद्रोऽयं द्विजरूपेण सभार्य इति कल्पयेत्
सोमरूपस्य ते तद्वन्ममाभेदोऽस्तु मूर्तिभिः
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि यज्ञेऽस्तु मे दृढा
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्
त्रैलोक्याधिपतिर्भूत्वा शतकल्पशतत्रयम्
नारी वा रोहिणी चंद्रशयनं वा समाचरेत्
इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन 4.206.
श्रीकृष्णस्य द्वारकागमनवर्णनम् धर्ममूलं यतश्चेदं तस्माद्धर्मपरो भव
जानताऽपि मया पार्थ कामार्थौ न प्रकाशितो
कामिनो वर्णयन्कामाँल्लोभं लुब्धस्य वर्णयन्