गांधर्वशास्त्रं विज्ञेयं कला ज्ञेयाश्च भारत
एष ते लक्षणोद्देश आचारस्य प्रकीर्तितः
आचारो भूतिजनन आचारः कीर्तिवर्धनः 4.205.
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यत
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
आचार एव नरपुंगव सेव्यमानो धर्मार्थकामफलदो भवतीह पुंसाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सदाचारधर्मवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः
रोहिणीचन्द्रशयनव्रतविधिवर्णनम् मुहुर्मुहुर्जन्मनि येन सम्यग्व्रतं मम ब्रूहि तदिंदुमौलेः
रहस्यं ते प्रवक्ष्यामि यत्पुराणविदो विदुः
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्
यदा सोमदिनयुक्ता भवेत्पंचदशी क्वचित्
तदा स्नानं नरः कुर्यात्पंचगव्यं च सर्षपैः
शूद्रोऽपि परया भक्त्या पाखंडालापवर्जितः
कृतजप्यः स्वभवनमागत्य मधुसूदनम्
सोमाय शांताय नमोऽस्तु पादावनंतनाम्ने ह्यनुजानु जंघे
नमोनमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया
नमोऽस्तु चन्द्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या 4.206.
नासा च नाथाय वनौषधीनां ह्यानंन्ददायाथ पुनर्भ्रुवोश्च
नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय
शिरः शशांकाय नमोऽसुरारेर्विश्वेश्वरायेति नमः किरीटम्
देवीं च संपूज्य सुगन्धधूपनेवद्यपुष्पादिभिरिंदुपत्नीम्
देयः प्रभाते स हिरण्यवारिकुंभो मनःपापविनाशनाय। संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च
ग्रासान्पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम्
अम्लानकुब्जानथ सिंदुवारपुष्पं पुनर्नारद मल्लिकायाः
यस्मिन्मासे व्रतादिः स्यात्पुष्पैरभ्यर्चयेद्धरिम्
एकसंवत्सरं यावदुपोष्य विधिवन्नरः
रोहिणचंद्रमिथुनं कारयित्वा तु कांचनम् 4.206.
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्
दद्यान्मंत्रेणे पूर्वाह्ने शालीक्षुफलसंयुतम्
सवस्त्रभाजनां धेनुं तथा शंखं च शोभनम्