वर्जयित्वात्र कमलं तथा कुवलयं विभो
कांचनीयापि या माला सा न दुष्यति कर्हिचित्
अन्यदर्चासु देवानामन्यद्धार्यं सभासु च 4.205.
उदुबरं न खादेत भवार्थी पुरुषोत्तमः
पतितः स्यान्नरो राजन्पतितैस्तु सहाचरन्
गृहे वा संस्थापितास्ते गृहवृद्धिमभीप्सता
भवंत्येते तथा पापास्तथा वै तिलपायिकाः
जलाग्नी चैव बिभृयाद्गृहे नित्यमिति स्थितिः
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि
प्रजापालन युक्तश्च न क्षांतिं लभते नृप
गांधर्वशास्त्रं विज्ञेयं कला ज्ञेयाश्च भारत
एष ते लक्षणोद्देश आचारस्य प्रकीर्तितः
आचारो भूतिजनन आचारः कीर्तिवर्धनः 4.205.
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यत
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
आचार एव नरपुंगव सेव्यमानो धर्मार्थकामफलदो भवतीह पुंसाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सदाचारधर्मवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः
रोहिणीचन्द्रशयनव्रतविधिवर्णनम् मुहुर्मुहुर्जन्मनि येन सम्यग्व्रतं मम ब्रूहि तदिंदुमौलेः
रहस्यं ते प्रवक्ष्यामि यत्पुराणविदो विदुः
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्
यदा सोमदिनयुक्ता भवेत्पंचदशी क्वचित्
तदा स्नानं नरः कुर्यात्पंचगव्यं च सर्षपैः
शूद्रोऽपि परया भक्त्या पाखंडालापवर्जितः
कृतजप्यः स्वभवनमागत्य मधुसूदनम्
सोमाय शांताय नमोऽस्तु पादावनंतनाम्ने ह्यनुजानु जंघे
नमोनमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया
नमोऽस्तु चन्द्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या 4.206.
नासा च नाथाय वनौषधीनां ह्यानंन्ददायाथ पुनर्भ्रुवोश्च
नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय
शिरः शशांकाय नमोऽसुरारेर्विश्वेश्वरायेति नमः किरीटम्