दत्त्वा तु भुंक्ते शिष्टेभ्यः क्षुधितेभ्यस्तथा गृही
नासंदीसंस्थिते पात्रे नादेशे च नरेश्वर
अश्नीयात्तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।। 4.205.
मार्दवं पुरुषोश्नन्वै मध्ये च कठिनाशनम्
दिवाधानासु वसति रात्रौ च दधिसक्तुषु
अनिंद्यं भक्षयेन्नित्यं वाग्यतोऽन्नमकुत्सयन्
यथावत्पुनराचामेत्पाणी प्रक्षाल्य यत्नतः
प्राणापानसमानानामुदानव्यानयोस्तथा
अगस्तिरग्निर्वडवानलश्च भुक्तं प्रपात्रं जरयत्वशेषम्
इत्युच्चार्य स्वहस्तेन पीरमार्ज्य तथोदरम्
संध्यायां पथिकः कश्चित्समागच्छति भारत
ततश्चान्नप्रदानेन शयनेन च पार्थिव
तदेवाष्टगुणं पुंसां सूर्ये हंसमुखे गते 4.205.
नाविशालां न वा भग्नां नासमां मलिनां न च
प्राच्यां दिशि शिरः शस्तं याम्यायामपि भूपते
ऋतावुपगमः शस्तः सपत्न्यां ह्यवनीपते
न चास्नातां स्त्रियं गच्छेद्गर्भिणीं न रजस्वलाम्
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम्
स्नातः सुगन्धधृग्धृष्टो न श्रांतः क्षुधितोऽपि वा
चतुर्दश्यां तथाष्टम्यां पंचदश्यां च पर्वसु
क्षुर कर्मणि चांते च स्त्रीसंभोगे च भारत
गुरोः पतिव्रतानां च तथा यज्ञतपस्विनाम्
युगपज्जलमग्निं च बिभृयान्न विचक्षणः 4.205.
नाचक्षीत धयंतीं गां जलं नांजलिना पिबेत्
दासं शपेन्न वै क्रुद्धः सर्वबन्धूनमत्सरी
नोर्ध्वं तु पत्तनद्वारं निरीक्ष्य पर्यटेन्नरः
शेषाहे त्वपि शेषांश्च वश्यात्मा यो निरस्यति
वृथा मांसं न खादेत पृष्ठमांसं तथैव च
संयावं कृशरं मांसं शष्कुलीपायसं तथा
अजाश्च नावकर्षेत ता बहिर्धारयंति च