न चातिरक्तवासाः स्याच्चित्रासितधरोऽपि वा
स्त्रीं कृशां नावजानीयाद्दीर्घमायुर्जिजीविषुः
हन्यादाशीविषः क्रुद्धो यावत्स्पृशति दंष्ट्रया 4.205.
ब्राह्मणः सकुलं हन्याद्ध्याने नावेक्षितेन च
नाज्ञातैः सह गंतव्यं नैकेन बहुभिः सह
रोहते चाग्निना दग्धं वनं परशुना हतम्
नास्तिक्यं वेदनिंदा च देवतानां च कुत्सनम्
न ब्राह्मणं परिवदेन्न नक्षत्राणि दर्शयेत्
तेजो निष्ठीव्य वासश्च परिधायाचमेद्बुधः
तत्र नित्यं वसेत्प्राज्ञः कृतकृत्यः पतौ सुखम्
यत्र स्त्रियोऽमत्सरिण्यस्तत्र वासः सुखोदयः
यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः
जिगीषुः पूर्ववैरं च जनश्च विरतोत्सवः 4.205.
ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी
न च रात्रौ महाराज दीर्घराज्यमभीप्सता
न च मित्रं प्रकुर्वीत हेमकारं कदाचन
अप्रशस्तानि चत्वारि ये च वृक्षाः सकंटकाः
नाश्नंति पितरस्तस्य यत्र कुक्कुरकुक्कटौ
अतस्तेषां तले भुजन्नश्नुते पूयशोणितम्
सुवासिनीं गुर्विणीं च वृद्धां बालातुरांस्तथा
अघं स केवलं भुंक्ते बद्धगोवाहनादिकम्
वैश्वदेवं ततः कुर्याद्यावदाहुतयः क्रमात्
तृतीयां चैव गुह्येभ्यः कश्यपाय तथा पराम् 4.205.
पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ
प्राच्यादिक्रमयोगेन इंद्रादीनां बलिं क्षिपेत्
विश्वेभ्यश्चैव देवेभ्यो विश्वभूतेभ्य एव च
ततश्चाग्रं समुद्धृत्य हंतकारोपकल्पितम्
दत्त्वा विधिभ्यो देवेभ्यो गुरुभ्यः सुश्रुताय च
नैकवस्त्रधरोऽश्नीयान्नार्द्रपादो महीपते
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः